This page has not been fully proofread.

हरस्य त्वद्धान्ति मनसि जनयन्ति स्म विमला
भवत्या ये भक्ताः परिणतिरमीषामियमुमे ॥
 
समुद्भूतेति । हे उमे ! भवत्या ये भक्ताः विमलाः मनोवाक्कायकर्मभिः
भवच्चरणोपासनपराः दम्भादिदोषरहिताः एतेषां, इयं परिणतिः उपसनायाः
परिणामः, सा का ? समुद्भूतस्थूलस्तनभरम् उरः चारुहसितं कटाक्षे कन्दर्पाः,
कटाक्षविक्षेपेण बहव उज्जीविता भवन्तीति भावः । कदम्बद्युतिवपुः ; रोमाञ्च-
कञ्चकितं वपुः, महादेवावलोकनसमुद्धतसात्विकभाव इति रहम्यम् । मनसि
त्वद्भ्रान्ति जनयति, एवंरूपा परिणतिर्भवति । त्वत्सारूप्यं प्राप्य तवैव
 
संनिधौ सख्य इव वर्तमानाः त्वमिव महादेवस्य मनसि भान्ति । अनेना
पूर्वोक्ताया भावनायाः फलमहिमा प्रतिपादितः । अत्र भ्रान्तिमानलङ्कारः ॥
(श्लो. १००.) (P. 193)
 
स्वकृतस्तुतिं निगमयति–
 
निधे नित्यस्मेरे निरवधिगुणे नीतिनिपुणे
निराघाटज्ञाने नियमपरचित्तैकनिलये ।
नियत्या निर्मुक्ते निखिलनिगमान्तस्तुतपदे
निरातङ्के नित्ये निगमय ममापि स्तुतिमिमाम् ॥
निधे इति । निधीयते जगदस्यामिति निधिः, हे निधे ! जगदाधार-
भूते; तथाच मार्कण्डेये– "आधारभूता जगतस्त्वमेक " इति । नित्यस्मेरे !
सर्वदानन्दनिभरोन्मेषलसद्वदने । ननु जगदाघारभूता इति पूर्व प्रतिपादितम् ।
अधुना नित्यस्मेरे इत्युच्यते । स्मेरता शरीरधर्मः जगदाधारभूता शक्तिरशरीरा ।
अत्र पूर्वोत्तरसंबोधनयोः परस्परं विरोध इत्यत आह — निरवधिगुण इति ।
निरवधिगुणे ! निरवधयः असंख्यातशक्तिविलासाः गुणाः यस्याः भक्तानुग्रह-
शरीरायाः स्मेरता अचिन्त्यरूपाधारशक्तिरशरीरेति न विरोधः । यदि भक्तानु-
CC-0. Jangamwadi Math Collection. Digitized by eGangotri