This page has not been fully proofread.

२६२
 
(सूचना-
सौन्दर्यलहर्या : २०२ तमे पुढे व्याख्याटिप्पण्योः दत्तां सूचनामनुसृत्य लक्ष्मी-
घराचार्येण अव्याख्यातं पद्यत्र्यं कैवल्याश्रमिकृतया सौभाग्यवर्धिनींव्याख्यया सह
पाठकानां अवगाहनाय अत्र निर्दिश्यते - )
 
(श्लो, ९४.) (P. 186)
श्रीभगवत्या वदनप्रतिबिम्बमहिमानं प्रस्तौति -
समानीतः पद्मां मणिमुकुरता मम्बरमणि-
र्भयादास्यस्यान्तः स्तिमितकिरणश्रेणिमसृणः ।
दधाति त्वद्वक्त्रप्रतिफलनमश्रान्तविकचं
निरातङ्कं चन्द्राभिजहृदयपङ्केरुहमिव ॥
 
समानीत इति । मणिमुकुरतां पद्मां, मणिमयादर्शरूपां लक्ष्मीं शोभां,
समानीतः ; प्राप्तः अम्बरमणिः आस्थस्य भयात् अन्तः स्तिमितकिरणश्रेणिम
सृणः, स्वकिरणसंपर्कात् जगदम्बिकावदनस्य ग्लानिर्भविष्यतीति भंयात् अन्तः
संकुचितकिरणश्रेणिभिः मसृणः चिक्कणः सन्, त्वद्वक्त प्रतिफलनं दधाति ।
किमिव ? अश्रान्तविकचम् ; अनवरत विकस्वरम्, चन्द्रान्निरातङ्कम्; अम्लानं,
निजहृदयपङ्केरुहमिव ; दर्पणीभूते दिनमणौ तव वदनं प्रतिबिम्बितम् तस्य
हृदयकमलायत इति भावः । समानीतः पद्धयामिति क्वचित्पाठः । सब
चरणाभ्यां मुकुरतां समानीतः । तादर्थ्ये चतुर्थी। तब चरणार्थ मुकुरुतां प्राप्त
इत्यर्थः । तव चरणप्रतिफलनयोग्योऽयं वदनप्रतिबिम्बधारणे का शक्तिरस्य
 
,
 
?
 
तथापि तव चरणकरुणया वदनप्रतिबिम्बं दधानेति भावः ॥
(श्लो. ९८.) (P. 190)
अथ श्रीदेव्युपासनाया सारूप्यरूपकफलमाह -
समुद्भूतस्थूलस्तनभरमुरश्चारुहसितं
कटाक्षे कंदर्पाः कतिचन कदम्बद्युतिवपुः ।
 
CC-0. Jangamwadi Math Collection. Digitized by eGangotri