2023-02-16 08:25:54 by ambuda-bot
This page has not been fully proofread.
xxviii
"उत्पत्तिमायति स्थानं विभुत्वं चैव पञ्चधा ।
अध्यात्मं चैव प्राणस्य विज्ञायामृतमश्नुते" (प्रश्नो. 3. 12.) इति,
तमेव विदित्वा अति मृत्युमेति
नान्यः पन्थाः अयनाय विद्यते" (श्वेता. 6.15.) इति,
"कुरुते गङ्गासागरगमनं व्रतपरिपालनमथवा दानम् ।
ज्ञानविहीनः सर्वमतेन मुक्ति न भजति जन्मशतेन ॥"
(मोहमुद्गरः) इति च ॥
ज्ञानलक्षणं चोक्तं भगवतैव-
[ज्ञानलक्षणम्]
"अध्यात्मज्ञाननित्यत्वं तत्त्वज्ञानार्थदर्शनम् ।
एतद् ज्ञानमिति प्रोक्तं अज्ञानं यदतोऽन्यथा ॥ (गीता, 13.11.) इति ।
[ सर्वेषामप्या संस्काराणां ज्ञानोपयोगिता]
परं तु एतादृशाः सद्विद्याशुद्धबुद्धयः जीवाः कति वा स्युः ?
इतरेषां च अवर्जनीयप्रकृतिसंसर्गाधीनतरतमभावापन्ननानाविधविचित्रवासनावतां
का वा गतिः ? इत्यालोच्य तादृशानामपि जीवानां विशुद्ध्यर्थमेव सृष्ट्यादि-
मर्मज्ञैः ज्ञानचक्षुर्भिः कृपालुभिः परमर्षिभिः बहुविधाः जातकर्मादयः संस्काराः
उपदिष्टाः । रुग्णं प्रति औषधोपदेशवत् ।
आरोग्यं नाम मानवस्य सहजो गुणः । तद्यदि केनचिद्वैषम्येणाहार-
व्यवहारादिनिमित्तेन प्रच्युतं भवेत् तदा व्याध्याक्रान्तो महतीं पीडामनुभवन्,
औषधादिना पथ्यसेवनादिना वा सहजां नीरोगतां पुनरात्मन्याधातुं प्रयतते ।
सिद्धश्च भवति । एवमेव सहजायास्तुरीयावस्थायाः प्रच्युतो मानवोऽपि
."
CC-0. Jangamwadi Math Collection. Digitized by eGangotri