This page has not been fully proofread.

xxvii
 
जीवानां स्वमूलभूतपरमात्माभिगमनमपि
 
सहजमेवेति सिद्ध्यति । एवं स्थितेऽपि
यथा सेतुबन्धादिना सरितां सागरगमनं स्वार्थपराः प्रतिरुन्धन्ति, एवमेव विषयामि-
मुखीकरणादिना जीवानामपि निवृत्तिपर्यायरूपां सहजां प्रवृत्ति प्रतिरुन्धन्तो
मानवाः अपि आत्मान एवात्मनां रिपवो भवन्ति । ये हि इममर्थतत्त्वं सम्यक्
विभाव्य सहजावस्थायां उत्कण्ठिता भवन्ति त एव कुशलाः आत्मबन्धवः
इत्युच्यन्ते । 'उरुक्रमस्य स हि बन्धुरित्या' इति हि श्रूयते ।
 
[निवृत्तिधर्मस्यैव सहजत्वोपपादनम् ]
 
गर्भसम्पुटित एव हि जीवः परमात्मना संरक्ष्यमाण:-
L
 
"यदि योन्यां प्रमुञ्चामि तं प्रपद्ये महेश्वरम् ।" (गर्भो: 8.)
इत्यादि चिन्तयन्नेव वर्तते इत्युपनिषत् । सहजावस्थितः शुद्धो माययाऽनावृतो
जीवः जातमात्रोऽपि परमात्माभिमुख एव वर्तते । जननानन्तरं तु
पूर्वकर्मानुरूपं वैष्णव्या मायया आवृतः क्रमेण सर्व विस्मरति ।
वामदेवशुक पराङ्कुशादय एवात्र निदर्शनम् । एते हि महात्मानः परमात्मनः
स्वस्य च स्वरूपं स्वतो यथावदेवावगच्छन्तो वर्धमानाः सहज ज्ञानमार्गमेवाश्रित्य
परिपूर्णतां प्राप्ताः ।
 
यथा-
1
 
• [सांख्ययोगविज्ञान
परिकर्मितज्ञानमार्गस्यैव मुक्तिहेतुत्वम्]
अयमेव च सांख्ययोगमार्गः इत्यपि वक्तुं शक्यते ।
"यदि योन्यां प्रमुञ्चामि सांख्यं योगं वा समाश्रये" (गर्भो. 9.)
इत्यपि गर्भस्थः चिन्तयतीति सैव गर्भोपनिषत् ।
 
अयमेव च ज्ञानमार्गः सर्वविधमृत्युतरणसाधनमित्यस्मिन् विषयेऽपि
ज्ञानिनां सन्देशाः एवं वर्तन्ते ।
 
CC-0. Jangamwadi Math Collection. Digitized by eGangotri