This page has not been fully proofread.

xxvi
 
लक्ष्यं प्रति प्रस्थिताः ? कुत्र वा लीयन्ते सागरं प्रति प्रस्थिताः
सागरे एव लीयन्ते । महान्तमपि प्रतिबन्धकवर्ग न गणयन्ति ।
 
;
 
यावदात्मनां समुद्रे लयं न साधयन्ति तावत् महत्या आर्भट्या प्रयान्ति,
मुहूर्तमपि निष्क्रियाः न तिष्ठन्ति । उक्तं हि 'नदीनां सागरो गतिः,
इति । कुत एवम् ? उच्यते-सागरजलं हि चण्डकरकिरणजालशोषित
जलघरीभूय पुनर्वर्षणेन धरामेबोपैति । यथाशक्ति प्रवहच्च स्वमूलं सागरमेव
गच्छति। यतो हि सर्वा अपि सहजाः प्रवृत्तयः निवृत्तिपर्यायाः स्वमूलस्थानप्राप्ति
प्रत्येव साघनीभूताः इति । एवमेवात्रापि ।
 
[प्रमाणोपन्यासेन तम्चिगमनम्]
 
इममेव गहनं तत्त्वं करतलामलकीकृत्य सनातनाः परमर्षयः
एवमादिदिशुः उपदिदिशुश्च । यथा-
" यथा नद्यः स्यन्दमानाः समुद्रे
 
अस्तं गच्छन्ति नामरूपे विहाय ।
तथा विद्वान् नामरूपाद्विमुक्तः
 
परात्परं पुरुषमुपैति दिव्यम् ॥" (मुं 3.2.8.) इति,
 
"सन्मूलाः सौम्येमाः सर्वाः प्रजाः सदायतनाः सत्प्रतिष्ठाः" (छां. 6.8.4.) इति,
"यतो वा इमानि भूतानि जायन्ते ।
येन जातानि जीवन्ति ।
यत्प्रयन्त्यभिसंविशन्ति ।
 
तद्विजिज्ञासस्व तद्ब्रह्मेति ॥ (तै. 3.1.) इति च ॥
 
[विषयप्रवणतायाः निवृत्यात्मक सहजप्रवृत्तिप्रतिबन्धकता]
एवं च-सरितां यथा स्वमूलसागराभिगमन सहजं, तथैव सर्वेषामपि
 
CC-0. Jangamwadi Math Collection. Digitized by eGangotri