This page has not been fully proofread.

चतुर्थमुद्रणप्रस्तावना
 
यत्र ब्रह्मरसास्वादः स्वयमेवानुभूयते ।
वागुम्भे तादृशे ह्यार्षे साधूनां रमतां मनः ॥
 
(पाद्मसंहिता)
 
[प्रकृतप्रस्तावनायाः उद्देश:]
 
श्रीशङ्करभगवत्पादविरचितायाः अस्याः सौन्दर्यलहर्याः करं, तद्देश-
कालादीन्, व्याख्यावैविध्यं, ग्रन्थार्थसिद्धमतादिकं, प्रतिपाद्यमानतन्त्रमन्त्रादि-
प्रक्रियां, पाठमेदादींश्च अधिकृत्य बहवः बहुधा उल्लिलिखुः विममृशुः
विचारयामासुश्च । परं एतद्ग्रन्थोद्गमनिमित्तविषये तदावश्यकताविषये
अधिकार्यधिगमप्रकारोपयोगक्रमादिविषये वा न केनापि किञ्चिद्यथावस्तु प्रस्तु-
तमिति तदेव किञ्चित्प्रस्तोतुं प्रयतामहे ।
 
"
 
[संसरतो मानवस्य बुद्धौ लक्ष्यनिर्णयावश्यकता]
 
अनादेः कालादनवरतं सहजत एव प्रवहतः उच्चावचस्यास्य
संसारस्य किं वा लक्ष्यं स्यात् ? इति बहवः बुद्धिजीविनः सदैव जिज्ञासमानाः
दृश्यन्ते । जिज्ञासायाश्चास्याः बहवो भारतीया महान्तः सन्तः महागुरु-
पदपल्लवच्छायाशमितभवतापाः
परं पारं अध्यगच्छन्, अधिगमिष्यन्ति
चेत्यत्र न संशयः । परंतु तादृश सन्मार्गाभिमुख्यं प्रति बौद्धमप्युत्तरमपेक्षितमिति
सूत्ररूपेण किञ्चिदुदाहरामः ।
 
[स्वमूलसायुज्यसंपादनस्यैव जीवनमुख्यलक्ष्यता]
 
C
 
अनारतं संसरतोऽस्य जीवस्य स्वमूलभूतसच्चिदानन्दस्वरूपतावाप्तिरेव
परमं लक्ष्यमिति सर्वा अपि विद्याः उद्घोषयन्ति । एतच्च वस्तुसतानुगुणमेवेति
वयमपि मन्यामहे । लोके हि सहजतः प्रवहन्त्यः सवी अपि नद्यः किं
 
CC-0. Jangamwadi Math Collection. Digitized by eGangotri