This page has not been fully proofread.

२०८
 
लो. १. (P. 1)
 
(i) यन्त्रमिदं तण्डुलपिष्टेन स्थण्डिले विलिख्य घृतदीपसंस्थापन पूर्वक द्वादश
दिनानि संपूज्य प्रत्यहं श्लोकमिमं सहस्त्रमावर्तयेत् । अनेन सकलकार्यजयः ।
 
(ii) इदमेव यन्त्रं हेमपट्टतले बिलिख्य पूर्वाभिमुखो द्वादश दिनानि संपूज्य
श्लोकमिमं प्रतिदिनं सहस्त्रमावर्त्य कण्ठे धारयेत् । अनेन सकलामिवृद्धिः । उभयन्न
नैवेद्यं त्रिमधुरम्। त्रिमधुरं नाम गुडनारिकेलकदलीफलानां मिश्रणेन संपादितं द्रव्यम् ।
 
CC-0. Jangamwadi Math Collection. Digitized by eGangotri