This page has not been fully proofread.

दयस्तोत्रमनुसृत्य समयमार्गप्रतिपादकमिदं सौन्दर्यलहरीस्तोत्रं व्यरचयन्नित्य-
ध्यवस्यते । किञ्च शङ्करभगवत्पादस्थापितेषु षण्मतेषु शाक्तमतमध्येकम् ।
शक्तिं विहाय सृष्ट्यादिव्यापारेषु शिवो न पटीयानित्येतन्मतस्य तत्त्वम् । इदं
च सौन्दर्यलहरीप्रथमश्लोकेन स्पष्टीकृतम् ॥
 
पूर्वोक्तकारणैः शङ्करभगवत्पादाः केषुचित्पुण्यक्षेत्रेषु श्रीचक्रोद्धार-
मकुर्वन्निति प्रथया, तत्स्थापितेषु मठेषु परम्परया श्रीचक्राचनस्याचरणेन,
स्तोत्रस्य श्रीविद्याप्रतिपादकतया च सौन्दर्यलहरीग्रन्थः शङ्करभगवत्पादविरचित
एवेति सुदृढं निश्चिनुमः ॥
 
द्वितीय मुद्रणं चेदं कोशत्रयसहायेन निर्वर्तितम् । इदं कोशत्रयमध्ये -
संशोधनालयस्थमेव-
तत्रैक: A 120 काकलपत्रात्मकः नातिशुद्धः
अन्यः A 370 काकलपत्रात्मकः प्रायेण शुद्धः
इतर: C 563 काकलपत्रात्मकः शुद्धः
 
एभ्यः सङ्गृहीतानि कानिचित् पाठान्तराणि तत्रतत्रैवाधो निर्दिष्टानि ॥
 
"}
 
xxiii
 

 
इति सज्जनविधेयः
विद्वान् एन्. एन्. स्वामिघनपाठी
 
CC-0. Jangamwadi Math Collection. Digitized by eGangotri