This page has not been fully proofread.

सौन्दर्यलहरी सव्याख्या
 
२०२
 
नान्वेति स्वकीयांमिरिति । अम्भोमिः जलैः सलिलनिधिसौहित्यकरणं
समुद्रस्य तृप्तिहेतुः तर्पणविशेषः । त्वदीयाभिः त्वदुत्पन्नैः त्वस्वरूपैः
वाग्भिः वाक्यसंदर्भैः तव भवत्याः, जननि ! मतः ! सवित्रीत्यर्थः । वाचां
वाक्यप्रपञ्चस्य स्तुतिरियम् ।
 
अत्रेत्थं पदयोजना – हे वाचां जननि ! यथा स्वकीयाभिः प्रदीप-
ज्वालामिः दिवसकरनीराजनविधिः, यथा स्वकीयैश्चन्द्रोपलजललवैः सुधासते-
रर्ध्यरचना भवति, यथा स्वकीयैरम्भोभिः सलिलनिधिसौहित्यकरणं भवति,
तथा त्वदीयामिः वाग्मिरेव तवेयं स्तुतिः ॥
 
अत्र इयं स्तुतिरिति यदा पूर्वोक्तप्रदीपज्वालादिवाक़्यप्रतिपादितार्थ -
साम्यपरामर्शः तदा प्रतिवस्तूपमालङ्कारः, उपमानोपमेययोर्वस्तुप्रतिवस्तुभावे-
नान्वयात् । यदा इयं स्तुतिरिति स्वरूपमात्रं परामृश्यते तदा भिन्नवाक़्यत्वेन
बिम्बप्रतिविम्बाक्षेगत् दृष्टान्तालङ्कारः । एवं प्रतिवस्तूपमादृष्टान्तालङ्कारयोः
अन्वयभेदेन प्रतीयमानत्वात् वाक्यद्वयाश्रयणात् संसृष्टिरेवेति ध्येयम् ॥
 
अस्मिन् सौन्दर्यलहरीश्लोकशतके 'समानीतः पद्भ्यां* इति
'समुद्रतस्थूलस्तनभरम्' । इति 'निधे नित्यस्मेरे'§ इति श्लोकत्रयं वर्तते ।
तत्तु भगवत्पादरचितं न भवति केनचित्प्रक्षिप्तमिति न व्याख्यातम् । श्लोक-
शतकमेव व्याख्यातम् ॥ १०० ॥
 
इति श्रीलोल्लकुलसंप्रदायप्रवर्तक भ्रमराम्बिकावरप्रसादसमुल्लसितमहा
सारस्वतभट्टलोल्लपतिग्रन्थविवरणकर्तृ श्रीमहोपाध्यायमहादेवाचार्यसप्तमेन साहि-
त्यपारिजातस्मृतिकल्पतरुप्रबन्धप्रबन्धलक्ष्मीघरार्यषष्ठेन भरतार्णवपोतारख्यसाहि-
त्यमीमांसाग्रन्थद्वयप्रणेतृविरिञ्चिमिश्रपञ्चमेन मीमांसाद्वयजीवातुनिर्मातृपुरुषो-
* अयं 'भराळा केशेषु' इत्यनन्तरं पठ्यते. + अयं 'गिरिमाहुः' इत्यनन्तरं
अयं 'सरस्वत्या' इत्यनन्तरं पठ्यते. इमे श्लोकाः प्रथमानुबन्धस्यान्तिमे
 
पव्यते.
भागे निर्दिष्टाः ॥
 
CC-0. Jangamwadi Math Collection. Digitized by eGangotri