This page has not been fully proofread.

शततमः श्लोकः
 
२०१
 
रहस्यम् । अत एव योगिना चतुर्विषैत्यानुसन्धानं कर्तव्यमेव । तथा च
 
श्रयते -
-
 
-
 
पिण्डब्रह्माण्डयैौरेक्यं लिङ्गसूत्रात्मनोरपि ।
स्वापाव्याकृतयोरैक्यं क्षेत्रज्ञपरमात्मनोः ।
 
अयमर्थः—पिण्डाण्डब्रह्माण्डयोरैक्यं ज्ञातव्यम् । तदनन्तरं लिङ्गात्म-
सूत्रात्मनोरैक्यं अवगन्तव्यम् । लिङ्गात्मा लिङ्गशरीरं एकादशेन्द्रियगणः
तन्मात्रापञ्चकं षोडशकं लिङ्गशरीरम् । सूत्रात्मा ब्रह्माण्डावच्छिन्नो वायुः
लिङ्गशरीरस्य अर्चिरादिमार्गप्रापकः । तयोरैक्यमवगन्तत्र्यंम् । स्वापाव्या-
कृतयोः– स्वापः सुषुप्त्यवस्थापन्नः साक्षी प्राज्ञः अव्याकृतः अविद्याशबलितं
ब्रह्म तयोरैक्यम् । क्षेत्रज्ञः जीवः, परमात्मा ब्रह्मस्वरूपं, तयोरक्यं ज्ञातव्यम् । एवं
संप्रदायरहस्यसंक्षेपः । विस्तरस्तु सुभगोदये शारीरके ज्ञातव्यः । अस्मिन्
श्लोके सौन्दर्यलहर्या यावत्प्रमेयजातं समयसिद्धान्तरहस्यत्वेन कौलसिद्धान्त-
रहस्यत्वेन च प्रतिपादितमस्माभिः संक्षेपतः तत्सर्व सूक्ष्मदृशा महात्मभिरनु -
सन्धेयमिति सर्वमनवद्यम् ॥ ९९ ॥
 
प्रदीपज्वालाभिर्दिवसकरनीराजनविधिः
सुधामृतेश्चन्द्रोपलजललवैरर्ध्यरचना ।
 
स्वकीयैरम्भोभिः सलिलनिधिसौहित्यकरणं
 
त्वदीयाभिर्वाग्भिस्तव जननि वाचां स्तुतिरियम् ॥ १०० ॥
 
प्रदीपस्य करदीपिकायाः, ज्वालाभिः कीलामिः, दिवसकरस्य
सूर्यस्य, नीराजनविधिः नीराजनकृत्यम्, सुधास्तेः चन्द्रस्य, चन्द्रोपल-
जललवैः चन्द्रोपलानां चन्द्रकान्तानां जललवैः निष्यन्दैः, अर्ध्यरचना ।
स्वकीयैः आत्मसंबन्धिभिः, एतत्स्वकीयपदं प्रदीपज्वालाभिरित्यादौ व्यत्यये-
-
 
SRI JAGAUGURU SHWAR
JNANA SIMHASAN JNANAN
LIBRARY
 
CC-0. Jangamwadi Math Collection. Digitized by eGangotri
 
langamawadi Math, Vara