This page has not been fully proofread.

4
 
२००
 
सौन्दर्यलहरी सब्याख्या
 

 
यस्मिन् तत् । स्वाधिष्ठानमिति बहुव्रीहिः, न तु तत्पुरुषः, उत्तरस्य पूर्वस्मिन्नन्तं-
र्भावायोगात् । 'षडथं भित्वाऽऽदौ' इत्युत्तरवाक्यानन्वयाच्च बहुव्रीहिरेव ।
चतुष्पत्रान्तश्च तत् षड्दलं स्वाधिष्ठानं च चतुष्पत्रान्तष्षड्दलम् । तस्य
पुटभगाः पुटात्मकाः सम्पुटात्मकाः तत्प्रकृतिका इति यावत्,
ते च ते भगाः
त्रिकोणानि । मणिपूरप्रभृति चतुश्चक्रस्य मूलाधारप्रकृतिकत्वस्योक्तत्वात् तेषां
त्रिकोणात्मकत्वम् । 'त्रिकोणे बैन्दवं श्लिष्टं अष्टारेऽष्टदलाम्बुजम्' इत्यत्र
सम्यनिर्णीतम् । पुटभगानां अन्तः मध्ये । त्रिवलयं ग्रन्थित्रयं स्वाधिष्ठा-
नानाहताज्ञान्तेषु अभिसूर्यचन्द्रात्मकरुद्रग्रन्थिविष्णुग्रन्थिब्रह्मग्रन्थिपर्यायत्वेन
स्थितमित्यर्थः । तत्र स्फुरत् स्फुरन्ती । 'स्त्रियाः पुंवद्भाषितपुंस्कादनूङ्
समानाधिकरणे' इत्यादिना पुंवद्भावः । विद्युतः सौदामिन्याः वह्नेः अग्नेः
धुमणेस्सूर्यस्य । नियुतशब्दः अगाणेयां सङ्ख्यां लक्षयति । तस्येवाभा
यस्यास्सा, सा च सा द्युतिलता, नित्या तटिद्वल्ली स्थिरसौदामिनीति यावत् ।
तस्याः सम्बुद्धिः । आज्ञाचक्रान्ते ब्रह्मग्रन्थिमेदनसमये विद्युन्नियुताभा,
स्वाधिष्ठानान्ते रुद्रग्रन्थिभेदनसमये वह्निनियुताभा, अनाहतचक्रान्ते विष्णु-
ग्रन्थिभेदनसमये द्यु॒मणिनियुताभा इति विवेकः । षडश्रं मूलाधारगर्भितं
स्वाधिष्ठानं आदौ मित्त्वा अथ तदनन्तरं दशदलं मणिपूरं भिवा हादशदलं
अनाहतचक्रं मित्त्वा कलाश्रं विशुद्धिचक्रं भित्त्वा इथश्रं आज्ञाचक्रं भित्रवा
गतवति सहस्रकमलमिति शेषः । हे गिरिसुते ! हिमाचलतनये ! ते नमः ॥
 
.
 
अत्र चतुष्पत्रं मूलाधारं स्वाधिष्ठाने अन्तर्भूत कौलाः उपासत इति
प्रागेव प्रतिपादितम् । समयिनस्तु स्वाधिष्ठानं भित्त्वा मणिपूरं प्रविष्टायाः
देव्याः उपासनं कुर्वन्तीति समयमततत्त्वं च प्रतिपादितम् ! अत्रेदमुपह्वरं—
षट्कमलेषु मनष्षष्ठं भूतपञ्चकं तादात्म्येनावतिष्ठते । तच्च पिण्डाण्डब्रह्माण्डयोरक्या-
नुसन्धानमहिम्ना षटकमलानुसन्धानसहिन्ना पञ्चविघसाम्यानुसन्धानमहिम्ना
षड्डिधैक्यानुसन्धानमहिना पिण्डाण्डं ब्रह्माण्डवदवभासत इति सर्वयोगशास्त्र-
*. "
 
1
 
Ce=0: Jangadi Math Collection. Digitized by eGangotri