This page has not been fully proofread.

एकोनशततमः श्लोकः
 
१९९
 
यद्यपि कौलानां द्विकानुसन्धानात् षट्रकमलानुसन्धानफलं सेत्स्यति,
तथापि षड्विधैक्यानुसन्धानाभावात् कुलमार्ग एवेति न देव्या मणिपूरे
सान्निध्यं, पञ्चविधमुक्तियुक्त्यभावश्च नादबिन्दुकलातीतत्वमप्यसंभाव्यमेव
कौलमते इति । समयिनां तु कार्यभूतचतुष्कानुसन्धानादेव कारणभूतकमल- -
इयानुसंधानफलं सेत्स्यतीति । अत एव पञ्चविधसाम्यसिद्धौ समयसमय-
भावः प्रत्यक्षं परिदृश्यते समयसमयिनोः समयिनां सेवकानामिति
भगवत्पादमततत्त्वम् ।
 
एवं भजनशब्दार्थ प्रतिपाद्य प्रकारान्तरेण भजनशब्दार्थो निरूप्यते-
यदाहुः भगवत्पादाः' 'धारणा परिज्ञानान्मुक्तिः' इति । अस्यार्थः – धारणाः
षष्ट्युत्तरत्रिशत सङ्ख्याकाः । धारणा नाम वायोः कमलेषु नादकलाभ्यां निरोधः ।
स च षट्कमलेषु षोढा सप्तमे कमले समयशब्दाभिलप्येन सार्धं सप्तविधः ।
एकैकस्मिन् कमले पञ्चाशदिति षष्ट्युत्तरत्रिशतं धारणा: ( ? ) । ताश्च पृथक्
नादबिन्दुकलाभिस्सा मेनप्रकाररनन्ता धारणा गुरूपदेशवशादवगन्तव्याः ।
धारणानां फलं आधारादिचऋषट्के यथाक्रमं मतिस्मृतिबुद्धिप्रज्ञामेधाप्रतिभा-
संविद्रूपं दिपात्रं दर्शितम्। अधिकं तु सुभगोदये चरणागमे च सप्रपञ्च
बहुधा प्रतिपादितं तत एवावधार्य ग्रन्थविस्तरभयान्नोपवर्णितमिहेति । अतः
एव काळिदासभगवत्पादैः कुलसमयमतमेदप्रतिपादकश्लोकेन सकलजननी-
स्तोत्रे कथितम् । यथा-
चतुष्पत्रान्त षड्दलपुटभगान्तस्त्रिवलय-
स्फुरद्विद्युद्धविद्युमणिनियुताभद्युतिलते ॥
षडश्र भित्वाऽऽदौ दशदलमथ द्वादशदलं
कलाश्रं च द्व्यश्रं गतवति नमस्ते गिरिसुते ॥
अस्यार्थः–चतुष्पत्रं आधारकमलं अन्तः अन्तस्स्थितं अन्तर्भूतमित्यर्थः,
 
CC-0. Jangamwadi Math Collection. Digitized by eGangotri
 
.