2023-02-16 08:26:40 by ambuda-bot
This page has not been fully proofread.
१९८
सौन्दर्यलहरी सब्याख्या
शक्तिशिवयोः शब्दार्थरूपत्वात् कलात्मकत्वं उभयसाधारणम् । अतश्च
मेलनं नादबिन्दुकलातीतमिति समयमतरहस्यम् । स च बिन्दुः दशधा
भिद्यते । यथोक्तम्–
दशघा मिद्यते बिन्दुरेक एव परात्मकः ।
चतुर्धाssधारकमले षोढाsधिष्ठानण्ङ्कजे ॥
उभयाकाररूपत्वादितरेषां तदात्मता । इति ।
अस्यार्थः-एक एव बिन्दुः मूलाधारकमलगतचतुर्दलेषु चतुर्धा, स्वाधिष्ठानपद्मगत-
षड्दलेषु षोढा, एवं दशधा मिद्यते । अयं भावः – मूलाधारं चतुष्पत्रं
सरसिजं, स्वाधिष्ठानं षड्दलं' मणिपूरं दशदलं, अनाहतपद्मं द्वादशदलं,
विशुद्धिपद्मं षोडशदलं, आज्ञाचक्रं द्विदलमिति सर्वयोगशास्त्रसिद्धम् । अत्र
आधारपद्मस्य दलचतुष्टयं बिन्दुचतुष्टयात्मकम् । ते च बिन्दवो मनोबुद्धय-
हङ्कारचिताख्याः प्रकृत्यात्मका: जगन्निर्माणहेतव इति सर्वयोगशास्त्रसिद्धम् ।
स्वाधिष्ठानपद्मगतषड्दलानां कामक्रोषलोभमोहमदमात्सर्यात्मका: षड्बिन्दवः ।
अत एव ते संहृतिबिन्दव इत्याहुः । तदुक्तं भगवता पतञ्जलिना – 'स्वाधि-
ष्ठाने संहारः षडबिन्दुकृतः' इति । एवं दश बिन्दवः कमलद्वयदलात्मकाः ।
मणिपूरं मूलाघारस्वाधिष्ठानात्मकमिति कृत्वा दशदलम् । अनाहतचक्रे मणि-
पूरप्रकृतिक दशदलं, पूर्वकमलद्वयप्रकृतिकं दलद्वयं द्वादशदलं अनाहत-
पद्मम् । विशुद्धिपद्मं तु अनाहत चक्रप्रकृतिकं द्वादशदलम्,
आधारप्रकृतिकं
चतुर्दलं, एवं षोडशदलम् । तथा मणिपूरप्रकृतिकं दशदंल स्वाधिष्ठानप्रकृतिकं
षड्दलमिति षोडशदलम् । आज्ञाचक्रं तु आधारस्वाधिष्ठानात्मकमिति
द्विदलम् । एवं मणिपूरप्रभृति आज्ञान्तानि चत्वारि कमलानि मूलाधारस्वा-
घिष्ठानप्रकृतिकानि । अत एव मूलाधारद्विके उत्तरंकमलचतुष्कमतभूतमिति
एकस्यैव बिन्दोः दशधात्वं नान्यथेति सिद्धम् ॥
CC-0. Jangamwadi Math Collection. Digitized by eGangotri