This page has not been fully proofread.

एकोनशततमः श्लोकः
 
१९७
 
एवं प्रासादन्यायेन श्रीचक्रस्य कमलानां चैक्यमनुसन्धेयम् । एतच्च नाद-
बिन्दैक्यं गुह्यात् गुह्यतमं शिष्यानुग्रहात् उपदिष्टम् ॥
 
अस्मिन् षट्चक्रे पञ्चाशत्कलानामन्तभवः कथितः । चन्द्रखण्डे
स्वराः, सूर्यखण्डे स्पर्शाः, अभिखण्डे अन्तस्थाः ऊष्माणश्च हकारवर्जिताः,
हकारळकारौ बैन्दवे, क्षकारस्सर्वत्रेति *'सवित्रीमिः' इति श्लोकेन प्रागेव
प्रतिपादितम् । मूलाधारादिदलेषु कलानां अन्तर्भावः प्रागेव प्रतिपादितः ।
कलानां तिथ्यात्मकत्वं, नित्यानां कलात्मकत्वं, कलानां मूलमन्त्रगतपञ्चदशा-
क्षरात्मकत्वं, पञ्चदशाक्षराणां त्रिखण्डत्वं, त्रिखण्डस्य सोमसूर्यानलात्मकत्वं,
सोमसूर्यानलानां ग्रन्थित्रयात्मकत्वं, ग्रन्थित्रयस्य मन्त्रगतहीङ्कारत्रयात्मकत्वं,
हीङ्कारस्य भुवनेश्वरी मन्त्रत्वं, भुवनेश्वरीमन्त्रस्य मूलमन्त्रान्तर्गतत्वं मूलमन्त्रस्य
चक्रेणैक्यं, तञ्चक्रनवकस्य मूलाधारादिषट्चत्रेषु ब्रह्मग्रन्थ्यादित्रिकेऽपि सहस्र-
कमलकर्णिकादौ तादात्म्यम् । एतदेव कलानादयोरैक्य नाम ॥
 

 
अयमत्र निष्कर्षः - नादेन बिन्दोरैक्यं, बिन्दुना कलायाः ऐक्यं,
कलायाश्च नादेनैक्यं, एवं त्रितयं ; कलया बिन्दोरक्य, कलया नादस्यैक्यं,
श्रीविद्याया पञ्चकस्यैक्यमिति षड् विधत्वमैक्यस्येति परमरहस्यं गुरूपदेशवशात्
ज्ञेयम् । एवं षोढैक्यं भगवत्याः सपर्येति सम्यगुपवर्णितम् । षोढैक्यानुसन्धाना-
नन्तरं दशभुजा भगवती श्रीविद्या मणिपूरे प्रत्यक्ष परिदृश्यमाना सपर्यया
सन्निघेयेति ऐक्यानुसन्धानमेव सपर्येति वदतो ममाशयः इति विज्ञेयम् ।
 
अधुना बिन्दुस्वरूपं प्रपञ्च्यते- बिन्दुरिति मूलाधारादिचऋषट्कम् ।
बिन्दुः जगदुत्पत्तिलयहेतुः शिवस्य शक्तिविशेषः । स च एक एव सहस्र-
कमलान्तचतुर्द्वारात्मककर्णिकामध्यगत चतुष्कोणात्मकं शक्तितत्त्वम् ।
 
तन्म-
ध्यगतशिवतत्त्वं नाद इत्युच्यते । स चतुर्विध इति प्रागेवोक्तम् । उभयोः
 
*
 
१७ श्लोक.
 
CC-0. Jangamwadi Math Collection. Digitized by eGangotri
 
13*