This page has not been fully proofread.

१९६
 
सौन्दर्यलहरी सब्याख्या
 
सारूप्यं नाम समानरूपत्वम् । पृथग्देहधारित्वेनेति सायुज्याद्भेदः । एतत्
चतुर्विधं गौण बाह्यदुःखातिवर्तित्वमात्रात् मुक्तिरिति व्यपदिश्यते । परंतु
सायुज्यात्मिकैव शाश्वती मुक्तिः सहस्रकमलोपासकानामेवेति । अत एव
परानन्दाभिख्यं रसं यथायोग्यं त्वद्भजनवान् रसयति इति ॥
 
अत्रेदं मततत्त्वम् – षट्कमलभेदमते सुखस्वरूपैव मुक्तिः । सुख
तु लौकिकदृष्टान्तेन स्त्रीसंभोगात्मिकै (त्मकमे) व । लोकेऽपि स्त्रीसम्मेलनात्
परं सुखं नास्ति । एवमत्यन्तदु: खोछेदानन्तरं सायुज्यसंसिद्धौ शिवशक्ति-
सम्पुटान्तर्भावात् तदात्मिकैव मुक्तिरिति ॥
 
तदयमत्र निष्कर्ष: – पूर्व मूलाधारादिषट्चक्राणां त्रिकोणाष्टकोण-
दशारद्वितयमन्वश्रशिवचक्रात्मना तादात्म्यं प्रतिपादितम् । एतदेव नाद-
बिन्द्वोरैक्यम् । तथा हि–नादो नाम श्रीचक्रम् । बिन्दुर्नाम षट्कमलगहनं
वक्ष्यते । तयोरैक्यं नाम आधारचक्रं चतुर्दलं, तत्कर्णिका त्रिकोणात्मिका ;
स्वाधिष्ठानं षड्दलं, तत्कर्णिका अष्टकोणात्मिका ; मणिपूरं दशदलं पद्मं,
तत्कर्णिका दशकोणात्मिका ; अनाहतं द्वादशदलं, तत्कर्णिका द्वितीयदश-
कोणात्मिकैव; विशुद्धिचक्रं षोडशदलं, तत्कर्णिका चतुर्दशकोणात्मिका;
एतावत्पर्यन्तं शक्तिचक्रैक्यम् । आज्ञाचक्रं द्विदलं, अष्टकोणमेकत्र षोडश-
कोणमपरत्रेति द्विधा मिन्ना कर्णिका । अयं भावः - द्विधा भिन्नं चतुरश्र-
प्रकृतिकं शिवचक्रचतुष्टयात्मकं आधारस्वाधिष्ठानात्मकं चेति प्रपञ्चितम् ।
वृत्तत्रयं स्वाधिष्ठानान्ते एकं वृत्तं रुद्रग्रन्ध्यात्मकं; अनाहतान्ते एकं विष्णु-
ग्रन्ध्यात्मकं, आज्ञाचक्रान्ते एकं ब्रह्मप्रन्थ्यात्मकम् । तत उपरि चतुद्वीरो-
पेतं भूपुर त्रितयं द्वारेषु चतुर्षु सोपानयुक्तम् । तच्च सहस्रदलकर्णिका ।
तस्य कमलस्य दलानि सहस्रम् । बैन्दवस्थानं चतुद्वीरोपेतं कर्णिकामध्ये ।
 
-
 
द्विदलानिन्नम्.
 
2 त्रितयोपेतं
 
1
 
पुरन्नयम्
 
CC-0. Jangamwadi Math Collection. Digitized by eGangotri