This page has not been fully proofread.

xxii
 
दृश्यन्ते । मन्त्रशास्त्रविज्ञेषु मूर्धन्यो नैकग्रन्थप्रणेता साक्षात्कृतदेवीकः श्रीमान्
भास्कररायोऽपि स्वविरचिते ललितासहस्रनामभाष्ये सेतुबन्धाख्यनित्याषोडशि-
कार्णवव्याख्यायां च नैकत्र शङ्करभगवत्पादानामेव सौदर्यलहरीप्रणेतृत्वं विस्पष्टं
प्रत्यपादयत् । अयं भास्कररायोऽध्यस्य ग्रन्थस्य काश्चिद्वयाख्यां व्यरचयदिति
बाती श्रूयते । मन्थस्तु नोपलब्ध: । सौन्दर्यलहर्याः शङ्करभगवत्पादनिर्मितत्वं
शैवपरिभाषायां शिवाग्रयोगीन्द्रज्ञानशिवाचार्येणा प्यङ्गीकृतम् ॥
 
शङ्करभगवत्पादाः गोविन्दभगवत्पाद शिष्याः इति सर्वजनविदितमेव ।
गोविन्दभगवत्पादाः गौडपादशिष्याः नर्मदातीरे न्यवसंश्चेति विद्यारण्यविरचित-
शङ्करविजयादवगम्यते । गौडपादाः – वेदान्ते माण्डूक्यकारिकाः, मन्त्रशास्त्र
श्री विद्यारत्नसूत्राणि सुभगोदयस्तोत्रं च व्यरचयन् । सुभगोदये द्विपञ्चाशत् श्लोका
वर्तन्ते । तत्र कौलसमयमार्गौ प्रतिपादितौ । तयोश्च समयमार्गस्य प्राशस्त्या-
तिशयो वर्णितः । अत इमेऽपि समयमार्गानुसारिणः इति ज्ञायते । आधुनिक-
मन्थशोधकाः मण्डूक्यकारिकाप्रणतृगौडपादेभ्यः, श्रीविद्यारत्नसूत्रादिप्रणेतारो
गौडपादाः भिन्ना इति तर्कयन्ति । एकस्य ग्रन्थस्य वेदान्तपरत्वमन्ययोः मन्त्र-
शास्त्रपरत्वमित्येतदेवैतादृशस्य तर्कस्य कारणमित्यवगम्यते । शङ्करभगवत्पादीये-
प्वपि प्रपञ्चसारादिषु केचिदेवं तर्कयन्ति । वेदान्तिभिर्मन्त्रशास्त्रग्रन्थाः मन्त्र-
शास्त्रज्ञैव वेदान्तग्रन्थाः न प्रणेतव्याः इति न ह्यस्तीश्वराज्ञा । एकस्यैवानेक-
तन्त्रनिर्मातृत्वं च परिदृश्यते खलु ॥
 
गौडपादाः गोविन्दभगवत्पादाः शङ्करभगवत्पादाश्च समकालीनाः स्युः ।
अथवा गौडपादाः शङ्करभगवत्पादेभ्यः प्राचीना एव वा भवेयुः । सर्वेप्येते
अद्वैतवादिनो वैदिकमार्गप्रवर्तका एव । एतेषां काले मन्त्रशास्त्रोक्त कौलसमय-
मार्गयोः कौलमार्ग एव प्रचारे अतिशयेनासीत् । जनाः तत्तत्वम विजानन्तः
क्रौला इति व्यवहरन्तो दुराचारनिरता आसन् । वैदिकस्समयमार्गः क्षीयमाण
आसीत् । वैदिकमार्गोद्धारायैवावतीर्णाः शङ्करभगवत्पादाः गौडपादानां सुभगो-
CC-0. Jangamwadi Math Collection. Digitized by eGangotri