This page has not been fully proofread.

· एकोनशततमः श्लोकः
 
तैत्तिरीयके सौम्यकाण्डे 'तेषामसुराणाम् * इत्यनुवाके तेषामसुराणामि-
त्यारभ्य 'तस्माद्रुद्रः पशूनामधिपतिः' इत्यन्तेन प्रतिपादितम् । अतः
पशुपाशौ जीवाविद्ये, तयोर्व्यतिकरः संबन्धः स च क्षपितः विदलित-
पशुपाशसंबन्धः सदाशिवतत्त्वात्मनाऽवस्थितः, परानन्दाभिख्यं परानन्दात्मिका
अभिरख्या ज्योतिर्यस्य सः तं परानन्दामिख्यं ज्योतीरूपं, रसयति आस्वादयति
रसं, सुखं, त्वद्भुजनवान् त्वद्भक्तः–तव भजनं सेवा ॥
 
अत्रेत्थं पदयोजना — हे भगवति ! त्वद्भजनवान् सरस्वत्या लक्ष्म्या
विधिहरिसपत्नः सन् विहरते । रम्येण वपुषा रतेः "पातिव्रत्यं शिथिलयति ।
क्षपितपशुपाशव्यतिकरः चिरंजीवन्नेव परानन्दाभिख्य रसं रसयति ॥
 

 
१९५
 
अत्रेदमनुसन्धेयम् – जीवन्मुक्तानां अविद्यानिवृत्तावपि कुलालचक्रश्रम-
णन्यायेन देहसंबन्धः । यथोक्तं षष्टितन्त्रे सप्तत्याम्-
सम्यज्ज्ञानाधिगमाद्धर्मादीनामकारणप्राप्तौ ।
 
तिष्ठति संस्कारवशाच्चक्रश्रमवद्धृतशरीरः ॥ इति ॥
 
अत्र त्वद्भजनवानित्यत्र द्विविधं भजनं – षट्चक्रसेवात्मकं धारणा-
त्मकं च । आद्यं निरूप्यते - आधारस्वाधिष्ठाने तामिस्रलोकत्वात् नोपास्ये ।
मणिपूरप्रभृतिसहस्रकमलपर्यन्तं पञ्च चक्राणि पूज्यानीति । तत्र मणिपूर-
कपूजापराणां सार्ष्टिरूपा मुक्तिः । सार्टिनम देव्याः पुरसमीपे पुरान्तरं
निर्माय सेवां कुर्वाणस्य अवस्थितिः । संवित्कमलपूजारतानां सालोक्यमुक्तिः
सालोक्यं नाम देव्याः पट्टणे निवासः । विशुद्धिचक्रोपासकानां सामीप्य-
मुक्तिः । समीप्यं नाम अङ्गसेवकत्वम् । अज्ञाचक्रोपासकनां सारूप्यमुक्तिः ।
 
• तै. सं. ६-१-३०
 
CC-0. Jangamwadi Math Collection. Digitized by eGangotri