This page has not been fully proofread.

सौन्दर्यलहरी सव्याख्या
 

 
सरस्वत्या भारत्या, लक्ष्म्या पद्मालयया, विधिहरिसपत्तः-
यथाक्रममिति शेषः । सरस्वतीपतित्वेन विधिः ब्रह्मणः सपत्नः असूयास्पदम्,
लक्ष्मीपतित्वेन हरेः असूयास्पदमित्यर्थः । विहरते विहरमाणः, रतेः
काममहिष्याः, पातिव्रत्यं पतिव्रताधर्मं पुरुषान्तरासंपर्करूपं शिथिलयति,
मन्मथाकारतया रतेः मन्मथभ्रान्ति जनयन् सम्भोगेच्छां जनयतीति भावः ।
रम्येण अतिसुन्दरेण, वपुषा शरीरेण, तादात्म्यबुद्धयेति यावत् । एवं
सादाख्यायाः कलायाः उपासकस्य ऐहिकफलमुक्त्वा आमुष्मिकमप्याह-
चिरंजीवन्नेव नित्यजीवनस्सन् । सावयवद्रव्यस्य नित्यत्वं पशुपाशव्यति-
करक्षपणहेतुकम् । अत्र केवलव्यतिरेकि अनुमानं साधनत्वेन प्रयोज्यम्-
सावयवं यत् क्षपितपशुपाशव्यतिकरं न भवति, तन्नित्यं न भवति, यथा
पश्वादि, इति जीवन्मुक्तिसिद्धिः । सावयवाः कपिलादयः, मार्कण्डेयादयो
नित्यसिद्धाः, अतः अन्वयव्यतिरेकि वा भवतु सावयवस्य नित्यतायां साधनम् ।
एवं नित्यजीवनः सन् क्षपितपशुपाशव्यतिकरः क्षपितः विनष्टः पशु-
पाशयोः व्यतिकरः । पशुः जीवः, इन्द्रियैः प्रपञ्च पश्यतीति । यहा – पश बन्धने
इत्यस्माद्धातोः पशुः अविद्याबद्धो जीवः, पाशः अविद्या । एतच्च श्रूयते -
अदि॑ितिः पाशं प्र सु॑मोक्त्वेतन्नर्मः
प॒शु॒भ्य॑ पशु॒पत॑ये करोमि ॥*
 
अस्यार्थः–अदितिः आदित्यमण्डलान्तर्गता बैन्दवी शक्तिः । पाशं
अविद्याक्कृतं बन्धं प्रमुमोक्तु प्रकर्षेण अत्यन्तं मोचयतु । एतत् नमः
नमस्कारं पशुपतये करोमि । पशुभ्य इति तादर्थ्ये चतुर्थी ।
तदर्थत्वं निवृत्तिः । पशुत्वनिवृत्यर्थम् । अयमर्थः– अदितिः पशुपतिना
सदाशिवेन युक्ता पाशविमोचनं करोत्विति । पशुशब्दस्य जीववाचित्वं
* तै. सं. ३१-४.
 
-
 
१९४
 
CC-0. Jangamwadi Math Collection. Digitized by eGangotri