This page has not been fully proofread.

एकोनशततमः श्लोकः
 
१९३
 
अत्रेदमनुसन्धेयम्—भगत्पादैः अनेडमूकेभ्यः लघुचर्चा स्तोत्रद्वयं
हस्तमस्तकसंयोगमहिम्ना अवाचि । तन्महिन्ना भगवती पादारविन्दनिर्णे-
जनजलं तन्मुखे दत्तवती । तन्निर्णेजनजलं पुनः प्रार्थयत्याचार्यः । अनेन
सामीप्यमुक्तिरुदिता । तद्विशेषानुत्तरश्लोके विवरिष्यामः । चरणनिर्णेजनजल-
मितिः बदता समयिमतमेवोतं, कौलमते भुजगाकारेणैव देव्या अवस्था-
नात् चरणनिर्णेजनजलस्याभावान् ! सहस्रकमल एव चरणनिर्णेजनजलमिति
पूर्वमेव बहुघ्ना प्रपञ्चितम् । अत एव -
 
सुधाधारासारैश्चरणयुगलान्तर्विगलितैः
 
प्रपञ्च सिञ्चन्ती पुनरपि रसाम्नायमहसः ॥ *
इतीदमधे समयमतप्रतिपादकम् ।
 
अवाप्य स्वां भूमिं भुजगनिममध्युष्टवलयं
स्वमात्मानं कृत्वा स्वपिषि कुलकुण्डे कुहरिणि ॥ *
इतीदमर्ध कौलमतप्रतिपादकमिति विवेकः ॥
 
अत्रोत्प्रेक्षालङ्कारः, चरणनिर्णेजनालक्तकरसस्य सरस्वतीताम्बूलरसत्वे-
नाध्यवसानात् । समयिनः साक्षात्सरस्वतीस्वरूपत्वेनाध्यबसानाच उत्प्रेक्षा-
तिशयोक्तयोः ः सङ्करः ॥ ९८ ॥
 
प्रक्रान्तां स्तुर्ति उपसंहरन् षट्कमलभेद सिद्धान्तं निर्दिशति-
सरस्वत्या लक्ष्म्या विधिहरिसपत्नो विहरते
 
रतेः पातिव्रत्यं शिथिलयति रम्येण वपुषा ।
चिरंजीवन्नेव क्षपितपशुपाशव्यतिकरः
 
परानन्दाभिख्यं रसयति रसं त्वद्भजनवान् ॥
 
*दशमः श्लोकः•
 
1
 
शास्त्रभेद.
 
CC-0. Jangamwadi Math Collection. Digitized by eGangotri
 
13