This page has not been fully proofread.

सौन्दर्यलहरी सव्याख्या
प्रकृत्या मूकानामपि च कविताकारणतया
 
कदा धत्ते वाणीमुखकमलताम्बूलरसताम्
 
॥ ९८ ॥
 
-
 
कदा काले जन्मप्रभृत्यवसानपर्यन्त इति शेषः । मातः ! जननि !
कथय सम्यगुपदिश । कलितालक्तकरसं कलितं उपदिग्धं अलक्तकरसं
लक्षारसं यावकं वा । स्त्रीणां पादाधरोष्ठरञ्जनार्थ अलक्तकद्रवं उपदिहन्ति
सैरन्ध्रयः । पिबेयं प्रार्थनायां लङ् । विद्यार्थी विद्या: अर्थयत इति
विद्यार्थी । यद्वा – अर्थः प्रयोजनमस्य अर्थी विद्यामिः अर्थीति । अत्र
रक्षित आह— 'अर्थशब्दान्मत्वर्थे * इनिप्रत्ययः' इति । अत एव 'तेनार्थ-
वान् लोभपराङ्मुखेन' इति कालिदासेन मतुबेव प्रयुक्तः । माघे - 'नितान्त-
मर्थिनः' इति णिनिरेव । 'अर्थी समर्थी विद्वान्' इत्यादावपि णिनिरेव ।
अत एव पूर्वव्याख्यैव समीचीना । तव भवत्याः, चरणनिर्णेजनजलं
चरणयोः पादयोः निर्णेजनजलं पाद्योदकं, प्रकृत्या स्वभावेन भूकानां,
अपिः विरोघे, चकारश्शङ्काच्छेदे, कविताकारणतया कवितायाः हेतुतया,
कदा धत्ते वाणीमुखकमलताम्बूलरसतां वाण्याः सरस्वत्याः मुखकमले
यस्ताम्बूलरसः तस्य भावस्तत्ता ताम् ॥
 
अयं भावः–भगवतीपादारविन्दनिर्णेजनजलं सालक्तकं कविताहेतुः
कवीश्वरस्य वदने स्थितं सरस्वतीताम्बूलरस इव प्रत्यक्षं भाति । स तु
कवीश्वरः पुंभावमापन्ना सरस्वतीवाभातीति ॥
 
अत्रेत्थं पदयोजना-हे मातः ! तव कलितासक्तकरसं चरणनिर्णे-
जनजलं विद्यार्थी अहं कदा काले पिबेयं कथय । तच्च प्रकृत्या मूकानां
अनेडमूकानां वक्तुं श्रोतुं अशिक्षितानामपि च कविताकारणतया वाणी-
मुखकमलताम्बूलरसतां कदा धत्ते ॥
 
१९२
 
*
 
शब्दात् भावार्थे. पा.
 
CC-0. Jangamwadi Math Collection. Digitized by eGangotri