This page has not been fully proofread.

अष्टनवतितमः श्लोकः
 
१९१
 
गिरां वाचां, आहुः कथयन्ति । देवीं अधिदेवतां दुहिण-
गृहिणीं ब्रह्मणः पत्नीं आगमविदः आगमरहस्यवेदिनः, हरेः विष्णोः,
पत्नीं जायां, पद्मां पद्मालयां हरसहचरीं शंभुपत्नीं अद्वितनयां पार्वतीम् ।
तुरीया चतुर्थी, कापि अनिर्वाच्या, त्वं दुरधिगमनिस्सीममहिमा
दुःखेन अघिगन्तुं शक्यः स चासौ निस्सीमो महिमा यस्याः सा देशतः
कालतो वस्तुतश्चापरिच्छेद्येत्यर्थः । महामाया शुद्धविद्यान्तर्गतं मायातत्त्वं,
विश्वं प्रपञ्चं, भ्रमयसि विवर्तयसीति विवर्त ब्रह्मधर्म मायायामतिदिशति ।
परब्रह्ममहिषि परब्रह्मणः सदाशिवस्य महिषि ! तथा च श्रूयते - 'ह्रीश्च ते
लक्ष्मीश्च पत्न्यौ' * इति पुरुषसूक्ते । ह्रीः भुवनेश्वरी लक्ष्मीः श्रीविद्या
उभे ब्रह्मणस्ते पत्न्यौ । अत्र तयोर्मध्ये श्रीविद्यायाः प्राधान्यं, श्रीविद्यायां
भुवनेश्वर्या अन्तर्भावात् । भुवनेश्वर्या न श्रीविद्याया अन्तर्भाव इति
चन्द्रकला प्राधान्येन सैव महिषीति ध्येयम् ॥
 
अत्रेत्थं पदयोजना–हे परब्रह्ममहिषि ! आगमविदः त्वामेव द्रुहिण-
गृहिणीं गिरां देवीमाहुः ; त्वामेव हरे: पत्नीं पद्मामाहु, त्वामेव हरसह-
चरीं अद्वितनयामाहुः, त्वं तुरीया कापि दुरधिंगमनिस्सीममहिमा महा-
माया सती विश्वं भ्रमयसि ॥
 
अयमर्थः– एकामेव भगवतीं नानानामभिः गृणन्त्यागमविदः पर-
ब्रह्ममहिषी श्रीविद्यापरनामधेया चन्द्रकला एकैवेति ॥ ९७ ॥
 
कदा काले मातः कथथ कलितालक्तकरसं
पिबेयं विद्यार्थी तव चरणनिर्णजनजलम् ।
 
* तै. भा. ३-१३.
 
CC-0. Jangamwadi Math Collection. Digitized by eGangotri