2023-02-16 08:26:38 by ambuda-bot
This page has not been fully proofread.
सौन्दमैलहरी सब्याख्या
१९०
जिज्ञासायां कलत्रशब्दस्यान्वय इति । धातुः कलत्रमित्युक्त तु संबन्धमात्रे
निहिता षष्ठी सबन्धिन्येव पर्यवस्थतीति साक्षादन्वय इति भावः । अतो
नायं प्रयोगो दोषावहः । वैधात्रं कलत्रं सरस्वतीं कतिकति भजन्ते
सेवन्ते । न कवयः के वा कवयो न भजन्ते सर्वेऽपि भजन्त इत्यर्थः ।
श्रियो देव्याः लक्ष्म्याः, को वा न भवति पतिः 'कैरपि धनैः । महादेवं
सदाशिवं हित्वा तव भवत्याः, सति ! पतिव्रते ! सतीनां पतिव्रतानां,
अचरमे! अग्रगण्ये ! कुचाभ्यां आसङ्गः आलिङ्गः, कुरवकतरोरपि असुलभः
सुलभो न भवति । कुचालिङ्गनं दोहदत्वेनापि कुरवकतरोरचेतनस्यापि न
सम्भवति, किमु वक्तव्यं पुरुषान्तर इति पातिव्रत्यं वाचामगोचरमिति भावः ॥
-
अत्रेत्थं पदयोजना — हे सति ! वैधात्रं कलत्रं कतिकति कवयः न
भजन्ते । श्रियो देव्याः कैरपि धनैः को वा पतिः न भवति । हे
सतीनामचरमे ! महादेवं हित्वा तव कुचाभ्यामासङ्गः कुरवकतरोरप्यसुलभः ॥
अयमर्थः – ये मन्त्रजपाद्य सादितसारस्वताः ते सरस्वतीवल्लभा इति
गीयन्ते। ये धनधान्याश्वगजादिसमृद्धिमन्तः ते लक्ष्मीपतयः इति गीयन्ते ।
पार्वतीपतिस्तु महादेव एवेति पातिव्रत्यमहिमा अवानगोचर इति ॥९६॥
गिरामाहुर्देवीं द्रहिणगृहिणीमागमविदो
हरेः पत्नीं पद्मां हरसहचरीमद्रितनयाम् ।
तुरीया कापि त्वं दुरधिगमनिस्सीममहिमा
महामाया विश्व भ्रमयसि परब्रह्ममहिषि ॥ ९७ ॥
1 अधिपतिरित्यधिकः• पा.
CC-0. Jangamwadi Math Collection. Digitized by eGangotri