This page has not been fully proofread.

षण्णवतितमः श्लोकः
 
१८९
 
मर्यादा पूजाप्रकारः, तरलकरणानां चञ्चलचितानां, असुलभा दुर्लमा ।
"अन्तःपुरप्रवेशः चञ्चलचितानां नास्तीति प्रसिद्धम् । अतो निश्चलचितैस्तु
सौविदल्लैः प्रवेष्टव्यम्" इति नीतिवाक्यामृते । निर्मलचितैरेव सुधाम्भोधि-
मध्यस्थितायाः पादाम्बुजसेवा ज्ञायते नान्यैरित्यर्थः । तथा, हिः प्रसिद्धौ ।
एते नीताः शतमखमुखा: इंन्द्रमुख्या: सुरगुणाः सिद्धिं संसिद्धिं, अतुलां
असदृशीं, तव भवत्याः द्वारोपान्तस्थितिभिः द्वारसमीपे स्तियो यासां
ताभिः । अणिमाद्याभिः अणिमाप्रमुखाभिः सिद्धिभिः सह अमराः निर्जराः ॥
अत्रेत्थं पदयोजना — हे भगवति ! पुरारातेरन्तःपुरमसि । तत-
स्त्वच्चरणयोस्सपर्या मर्यादा तरलकरणानामसुलभा । तथा हि - एते शत-
मखमुखाः अमराः तव द्वारोपान्तस्थितिभिः अणिमाद्याभिः सह अतुलां
सिद्धिं नीताः ।
 
-
 
यथा तव द्वारोपान्तमेव अणिमादिसिद्धयस्सेवन्ते एवमिन्द्रादयोऽपि ।
इयांस्तु विशेषः – अणिमाद्यष्टसिद्धीनां द्वारपालकत्वेन सर्वदा तत्र वासः
स्वभावसिद्धः । इन्द्रादीनां तु तरलकरणत्वात् अन्तःपुरप्रवेशानर्हत्वात्
दौवारिकानुमत्या द्वारदेशेऽवस्थानं सिद्धिशब्दार्थः इति तात्पर्यम् ॥ ९५ ॥
 
कळत्रं वैधात्रं कतिकति भजन्ते न कवयः
 
श्रियो देव्याः को वा न भवति पतिः कैरपि धनैः ।
महादेवं हित्वा तव सति सतीनामचरमे
 
कुचाभ्यामासङ्गः कुरवकतरोरप्यसुलभः ॥ ९६ ॥
 
कश्मलाबायत इति कलत्रं पत्नी। कश्मलं नरकं मध्यवर्णलोपः पृषो-
दरादित्वात्साधुः । कलत्रं कश्मलात् त्रायत इति रक्षितः । वैधात्रं विघातृ-
सम्बन्धि । विधातृशब्दस्य 'तस्येदम्' इत्याणि कृते संबन्धमात्रपरत्वे तद्विशेष-
CC-0. Jangamwadi Math Collection. Digitized by eGangotri