2023-02-16 08:26:38 by ambuda-bot
This page has not been fully proofread.
सौन्दर्यलहरी सब्याख्या
भोगेनानुभवेन कस्तूरीपन्नीरकर्पूराणां अनुभवेन, प्रतिदिनं दिनेदिने इदं
परिदृश्यमानमिन्दुमण्डलं, रिक्तकुहरं शून्यान्तरं, विधिः ब्रह्मा, भूयोभूयः
प्रतिदिनं निबिडयति पूरयति । नूनं तव कृते तुभ्यमित्यर्थः ।
अर्थे कृते च तादर्थ्ये निपातद्वयमीरितम् ।
इति कृतेशब्दस्ताद निपातितः तद्योगे षष्ठ्येव ।
१८८
अत्रेत्थं पदयोजना - हे भगवति ! कलङ्कः कस्तूरी रजनिकरबिम्बं
जलमयं कलाभिः कर्पूरै ः निबिडिंत मरकतकरण्डम् । अतः इदं प्रतिदिनं
त्वद्भोगेन रिक्तकुहरं विधिः भूयोभूयः तव कृते निबिडयति नूनम् ।
अत्रातिशयोक्तिरलङ्कारः, मरकतकरण्डत्वेन चन्द्रमण्डलस्याध्यवसानान् ।
यद्वा — अपह्नवालङ्कारः, अयं कलङ्को न भवति अपि तु कस्तूरी ; इदं
रजनिकरबिम्बं न भवति किन्तु बहिःप्रतिफलितमन्तर्गतं पन्नीरं ; इमाः कलाः
न भवन्ति अपि तु कर्पूररजः ; इदमिन्दुमण्डलं अन्तस्स्थितद्रव्यप्रतिफलन-
वशात् पीतवर्ण प्रतीयते, वस्तुतस्तु श्वेतवर्णमेवेत्याद्यवस्थापह्नवमालायाः
प्रतीतेः । उत्प्रेक्षालङ्कारश्च; प्रतिपदादिदिनेषु वृद्धिक्षयवतः चन्द्रमसः कस्तू-
र्यादिद्रव्यव्ययप्रवेशाभ्यां ईषद्रिक्तत्वसंपूर्णत्वयोस्सम्भावनात् । अतः अनयो-
रनुसृष्टिः अङ्गाङ्गिभावेन पृथक्स्थित्या अवस्थानात् ॥ ९४ ॥
पुरारातेरन्तःपुरमसि ततस्त्वच्चरणयोः
सपर्यामर्यादा तरलकरणानामसुलभा ।
तथा होते नीताः शतमखमुखाः सिद्धिमतुलां
तव द्वारोपान्तस्थितिभिरणिमाद्याभिरमराः ॥ ९५ ॥
पुरारातेः पुरान्तकस्य, अन्तःपुरं अवरोघ्नः पट्टमहिषीति यावत् ।
असि भवसि । ततः तस्मात्कारणात्, त्वच्चरणयोः तव पादयोः,
सपर्या-
CC-0. Jangamwadi Math Collection. Digitized by eGangotri