This page has not been fully proofread.

चतुर्नवतितमः श्लोकः
 
दृषदुपुल इति पूर्वमेवोक्तं तस्येव शोभा यस्याः सा । कुचतटे स्तनतटे, भृशं
अत्यर्थ, तन्वी कृशा, मध्ये वलमे, पृथुः स्थूला, उरसिजारोहविषये स्तन-
विषये नितम्बविषये च । विषयशब्दः स्थलवाची । जगत् प्रपञ्च, त्रातुं
रक्षितुं, शम्भोः सदाशिवस्य, जयति अहमेवेति स्फुरतीत्यर्थः । करुणा
कृपात्मिका, काचित् अनिर्वाच्या, अरुणा अरुणाख्या शक्तिः । यद्धा-
अरुणेवर्णा काचित् करुणा कृपा करुणाया आरुण्यारोपात् मूर्ती करुणेव
भातीति वाक्यार्थः । अरुणाख्या शक्तिरर्थादवगता ॥
 
-
 
अत्रेत्थं पदयोजना — शंभोः काचित् केशेषु अराला मन्दहसिते
प्रकृतिसरला चित्त शिरीषाभा कुचतटे दृषदुपलशोभा मध्ये भृशं तन्वी
उरसिजारोहविषये पृथुः अरुणा करुणा जगत् त्रातुं जयति ॥
 
अत्र कामेश्वर्याः अरुणाकरुणाशब्दाभ्यां निगीर्याध्यवसानात् अति-
शयोक्तिः ॥ ९३ ॥
 
कलङ्क: कस्तूरी रजनिकरबिम्बं जलमयं
कलाभिः कर्पूरैर्मरकतकरण्डं निबिडितम् ।
अतस्त्वद्भोगेन प्रतिदिन मिदं रिक्तकुहरं
 
विधिर्भूयोभूयो निबिडयति नूनं तब कृते ॥ ९४ ॥
 
कलङ्कः लाञ्छनं, कस्तूरी मृगनाभिः रजनिकरबिम्बं चन्द्रबिम्बं,
जलमयम् । स्वार्थे मयट् । पन्नीरमित्यर्थः । कलाभिः कलात्मकैः, कर्पूरैः
सह मरकतकरण्डं मरकतमणिना रचितम् । मरकतशब्दो वर्णव्यत्ययेन
मकरशब्दादुत्पन्नः मकरात् मकरतः । मकरवक्ताज्जातं मकरतमिति भोजराजः।
करण्डं निबिडितं अन्तःपूरितम् । अतः त्वद्भोगेन तव देव्याः उप-
CC-0. Jangamwadi Math Collection. Digitized by eGangotri