This page has not been fully proofread.

सौन्दर्यलहरी सव्याख्या
 
अत्रेदमनुसन्धेयम् – आधारस्वाधिष्ठानमणिपूरा नाहतविशुद्धयाज्ञाचक्रा-
त्मकं षट्चक्रसदनं पृथिव्यग्निजलवायुगगनमनस्तत्त्वाधिष्ठितानि एकादशेन्द्रिया.
धिष्ठानं च । एवं आज्ञाचक्रान्ते एकविंशतितत्त्वान्यधिष्ठितानि तदात्मना-
वस्थितानि । तव उपरि मायाशुद्धविद्यामहेश्वरसदाशिवात्मकत त्वचतुष्टयं
ब्रह्मग्रन्ध्यनन्तरभाविचतुर्द्वारात्मकभू पुरत्रितयात्मक श्रीचक्रहारचतुष्टये स्थितम् ।
प्रागादिद्वारदेशेषु मायादीनि चत्वारि तत्त्वानि । तान्येव मञ्चस्य चतुष्पदानि ।
शुद्धविद्यायाः सदाशिवतत्त्वा मिनिवेशात् तच्छायापत्या सहस्रकमलान्तर्गतशिवः
सदाशिवात्मा अनुरागवशात् शुद्धविद्यायाः संवलनात् तादाम्यं प्रतीयते ।
सहस्रकमलान्तस्थितस्य चतुरात्मकस्य कर्णिकारूपस्य श्रीचक्रस्य मध्यवर्ति-
चतुर श्रात्मकबैन्दवापरपरर्यायसरघाशब्दवाच्यसुधासिन्धौ शिवशक्तयोर्मेलनमिति।
अवशिष्टं सर्व 'सुधासिन्धोर्मध्ये *इति श्लोकव्याख्यानावसरे कथितम् ॥
 
१८६
 
अत्र तद्गुणालङ्कारानुप्राणित उत्प्रेक्षालङ्कारः, शिवस्यातिधवलस्य
कामेश्वरीतनुकान्त्या ताद्गुण्यात् शरीरी शृङ्गारो रस इवेत्युत्प्रेक्षणादिति ॥ ९२ ॥
 
अराला केशेषु प्रकृतिसरला मन्दहसिते
शिरीषाभा चित्ते' दृषदुपलशोभा कुचतटे ।
भृशं तन्वी मध्ये पृथुरुरसिजारोहविषये
 
जगत्तातुं शंभोर्जयति करुणा काचिदरुणा ॥ ९३ ॥
 
-
 
अराला वक्रा, केशेषु नान्यत्रेत्यर्थः । प्रकृतिसरला प्रकृत्या स्वभावेन
सरला ऋज्वी, मन्दहसिते मन्दस्मिते, शिरीषाभा शिरीषकुसुमाभा अति-
सृद्वीत्यर्थः । चित्ते अतःकरणे दृषदुपलशोभा 'द्वषदि य उपलः पेषणिका
 
-
 
* ८मः श्लोकः. 1 दृषदिव कठोरा दृषदिवोपल इव कुचतटे स्तनप्रदेशे कठोरा.
 
2
 
CC-0. Jangamwadi Math Collection. Digitized by eGangotri