This page has not been fully proofread.

xxi
 
वा नोपलभ्यन्ते । देव्यनुगृहीतेनानेन प्रवरसेनेन एतद्ग्रन्थ एव रचितः इत्युक्तिर्न
युक्तिपथमर्हति ॥
डिण्डिमव्याख्याकारस्तु – ग्रन्थारम्भे – शिव एव स्तोत्रमिदं व्यारचयत् ?
शिवस्यावतारभूतः शङ्कर एव वा स्तोत्रमिदं रचितवान् ? उत पराशक्तेमुखादेव
स्तोत्रमिदं निर्गलितम् ? इत्येवमादि विकल्प्य स्तोत्रेस्मिन् पञ्चसप्ततितमश्लोकस्य
व्याख्यायां काञ्चीनगरवास्तव्यः सम्बन्धस्वामिनामा देव्याः स्तन्यपायी तन्महिन्ना
सौन्दर्यलहरीग्रन्थं रचयामासेति निश्चिनुते स्म । इदमपि न शोभावहम् । यतः
सम्बन्धस्वामिना विरचितः संस्कृतग्रन्थः कोऽपि न प्रसिद्धिमागतः । द्रमिडदेशे
देव्या अनुग्रहस्य पात्रीभूताः बहवो भक्ताः आसन्निति प्रतीयते । एतदनुगुणतया
तत्र तत्र केचन देवालयाश्च दरीदृश्यन्ते । भक्ताश्चैते द्रमिडभाषायामेवानेकान्
ग्रन्थान् रचयामासुः । एतेषां गीतानि अद्यापि तस्मिन् देशे सुप्रसिद्वानि । अयं
सम्बन्धस्वाम्यपि तत्कोटिप्रविष्ट एव कश्चित् स्यात् । सौन्दर्यलहरीस्थपञ्चसप्तति-
तमश्लोकस्थं "द्रविडशिशुः" इति पदमेवैतेषां विकल्पानां मूलमिति
प्रतिभाति ॥
 
सौभाग्यवर्धिनीव्याख्याकाराः कैवल्याश्रमिणस्तु स्तोत्रेऽस्मिन् पञ्चसप्तति
तमश्लोकव्याख्यायां शङ्करभगवत्पादानामेव सौन्दर्यलहरीरचयितृत्वं स्पष्टीकु-
ते स्म । शङ्करभगवत्पादाः देवीस्तन्यपानेन लोकोत्तरकवितादिसामर्थ्यमवापुरिति
पुरावृत्तमेवैतेषामेवमुक्तौ गमकम् । पुरावृत्तं चेदं प्रथममुद्रणप्रस्तावनायां स्पष्टी-
कृतमिति तत्रैव द्रष्टव्यम् ॥
 
एतत्संशोधनालयस्थानां षण्णामपि व्याख्यामानां प्रणेतृषु प्रवरसेनसुतादिषु
सुधाविद्योतिनी डिण्डिमव्याख्याकारौ विहाय अन्ये सर्वेऽपि शङ्करभगवत्पादानामेव
सौन्दर्यलहरीप्रणेतृत्वमूरीकुर्वन्ति । शङ्करभगवत्पादानां कवितापाटवं लोकाति-
शायीति तद्रन्थेभ्य एव विज्ञायते । सौन्दर्यलहर्या प्रतिपादिताः अनेके विषयाः
भगवत्पादविरचितेषु शक्तिपरेषु स्तोत्रेषु ललिता त्रिशतीभाष्यादिषु च प्रतिपादिताः
 
P
 
CC-0. Jangamwadi Math Collection. Digitized by eGangotri