This page has not been fully proofread.

द्विनवतितमः श्लोकः
 
पदन्यासक्रीडा
परिचयार्थत्वेन अध्यवसानात् असंबन्धे संबन्धनिबन्धनाति-
शयोक्तिः । उभयोरङ्गाङ्गिभावेन सङ्करः ॥ ९१ ॥
एवं मकुटादिपादान्तं वर्णयित्वा पुनः स्वरूपं प्रस्तौति-
गतास्ते मञ्चत्वं द्रहिणहरिरुद्रेश्वरभृतः
 
शिवः स्वच्छच्छायाघटितकपटप्रच्छद पटः ।
त्वदीयानां भासां प्रतिफलनर गारुणतया
 
शरीरी शृङ्गारो रस इव दृशां दोग्धि कुतुकम् ॥ ९२ ॥
 
१८५
 
-
 
गताः प्राप्ताः, ते तव, मञ्चत्वं खट्टारूपत्वं द्रुहिणहरिरुद्रेश्वरभृतः
ढहिणो ब्रह्मा हरिर्विष्णुः रुद्रः ईश्वरः, एते अधिकारपुरुषाः महेश्वरतत्त्वान्तर्गताः
ते च ते भृतश्च । क्विबन्तोऽयं शब्दः बहुवचनान्तः । भृतो भृतकाः विशेषण-
समासः । तेषां कामरूपाणां अत्यन्तसन्निकृष्टसेवार्थ मञ्चस्य पादचतुष्टय-
रूपता युज्यत एव । शिवः शिवशब्दो व्याख्यातः शिवतत्त्वात्मक एवाधिकारि-
पुरुषः । यद्वा – सदाशिवतत्वम्। स्वच्छच्छायाघटितकपटप्रच्छदपटः स्वच्छा
चासौ छाया च स्वच्छच्छाया, कान्तिः सैव घटितः कपटप्रच्छदपटः शुभकान्तिरेव
वस्त्रात्मनावस्थित इर्थः । त्वदीयानां भवत्सम्बन्धिनीनां, भासां कान्तीनां,
प्रतिफलनरागारुणतया प्रतिफलनेन यो रागः रक्तिमा सङ्क्रान्तः तेनारुणो
रक्तवर्णः तस्य भावस्तत्ता तया । शरीरी मूर्तः, शृङ्गारः शृङ्गाराख्यो, रस इव।
शृङ्गाररसः रक्तवर्ण इति महाकविप्रसिद्धिः । इवशब्दः संभावनायाम् । दृशां
भवद्वीक्षणानां, दोग्धि दुग्धे प्रसूते करोतीति यावत्, कुतुकं आनन्दम् ॥
 
अत्रेत्थं पदयोजना - हे भगवति । ते मञ्चत्वं द्रुहिणेहरिरुद्रेश्वरभृतः
गताः ; शिवः स्वच्छच्छायाघटितकपट प्रच्छदपटः सन् त्वदीयानां भासां
प्रतिफलनरागारुणतया शरीरी शृङ्गारो रस इव दृशां कुतुकं दोग्धि ॥
 
CC-0. Jangamwadi Math Collection. Digitized by eGangotri