This page has not been fully proofread.

सौन्दर्यलहरी सव्याख्या
 
कमलमारोप्यमाणबुद्धया निगीर्णमिति सम्यक् । एवं परिणामातिशययोः सङ्कर
एव न तु संसृष्टिरिति ध्येयम् ॥ ९० ॥
 
१८४
 
पदन्यासक्रीडापरिचयमिवारब्धुमनसः
 
स्खलन्तस्ते खेलं भवनकलहंसा न जहति ।
अतस्तेषां शिक्षां सुभगमणिमञ्जीररणित-
च्छलादाचक्षाणं चरणकमलं चारुचरिते ॥ ९१ ॥
 
पदन्यासक्रीडापरिचयं पदयोर्न्यासः तस्मिन् क्रीडा विनोदः तस्य
परिचयमिव अभ्यासमिव । इवशब्दः संभावनावचनः नूनमित्यर्थ: । आरब्धु-
मनसः संपादयितुकामाः, स्खलन्तः स्खलगतयः, ते तव खेलं खेलनं
विलासं सञ्चारं, भवनकलहंसाः भवने परिपोषिताः कलहंसा: हंसविशेषाः,
न जहति न परित्यजन्ति त्वदनुसरण न कदाचिदपि त्यजन्तीत्यर्थः । अतः
कारणात् तेषां कलहंसानां, शिक्षां खेलनशिक्षां, सुभगमणिमञ्जीररणित-
च्छलात् मणिमञ्जीरो मणिप्रधाननूपुरः स चासौ सुभगः रम्यतर, यद्वा-
सुभगैः मणिमिः पद्मरागादिभिः युक्तः, तस्य मञ्जीरस्य रणितानां शिजितानां
छलात् व्याजात् । आचक्षाणं उपदिशत्, चरणकमलं पादाम्बुज, चारु
चरिते ! शोभनगमने !
 
"
 
अत्रेत्थं पदयोजना - हे चारुचरिते । पदन्यासक्रीडापरिचयं आरब्धु-
मनसः भवनकलहंसाः स्खलन्तः ते खेलं न जहति; अतः चरणकमलं
सुभगमणिमञ्जीर रणितच्छलात् तेषां शिक्षां आचक्षाणमिव ॥
 
अत्रोत्प्रेक्षालङ्कारः– मञ्जीररणितानां शिक्षावचनात्मतया संभावनात् ।
पूर्वार्धे अतिशयोक्तिः, भवनकलहंसानां स्वाभाविके पोषकजनानुसरणे
 
CC-0. Jangamwadi Math Collection. Digitized by eGangotri