This page has not been fully proofread.

नवतितमः श्लोकः
 
ददाने दीनेंभ्यश्श्रियमनिशमाशानुसदृशीं
अमन्दं सौन्दर्य प्रकरमकरन्दं विकिरति ।
तवास्मिन् मन्दारस्तबकसुभगे यातु चरणे
 
निमज्जन् मज्जीवः करणचरण षट्चरणताम् ॥ ९० ॥
 
ददाने ददति, दीनेभ्यो दरिद्रेभ्यः, श्रियं लक्ष्मी, अनिशं आशानु-
सहशीं वाञ्छानुरूपां, अमन्दं अधिक, सौन्दर्यप्रकरमकरन्दं सौन्दर्यस्य
लावण्यस्य प्रकर: समूह एव मकरन्दः पुष्परस: तं, विकिरति क्षिपति, तव
भवत्याः, अस्मिन् दृश्यमाने, मन्दारस्तम्बकसुभगे कल्पवृक्षगुच्छसौभाग्यवति,
यातु प्राप्नुयात् । चरणे पादाब्जे, निमज्जन् नितरां मज्जनं कुर्वन्
मज्जीवः अहं चासौ जीवश्च मज्जीवः, करणचरणः करणानि पञ्चन्द्रियाणि
मनष्षष्ठानि तान्येव चरणा यस्य सः षट्चरणतां भ्रमरत्वम् ॥
 
-
 
अत्रेत्थं पदयोजना – हे भगवति । दीनेभ्यः आशानुसदृशीं श्रियं
अनिशं ददाने अमन्दं सौन्दर्यप्रकरमकरन्दं विकिरति मन्दारस्तबकमुभगे
अस्मिन् तव चरणे करणचरणः मज्जीवः निमज्जन् षट्चरणतां यातु ॥
 
अत्रातिशयोक्तिरलङ्कारः, चरणस्य कमलत्वेन निगीर्याध्यवसानात् ।
मन्दार स्तबकसुभग इत्यत्र उपमालङ्कारः । अनयोः संसृष्टि: । करणचरणं इत्यत्र
रूपकं करणानां चरणत्वेन' रूपणात् । मज्जीवष्षट्रचरणेतां यात्वित्यन्त्र
परिणामालङ्कारः स्पष्टः । अनयोरङ्गाङ्गिभावेन सङ्करः । सौन्दर्यप्रकरमकरन्दं
विकिरतीत्यत्र रूपकं निगीर्याध्यवसाने निमित्तम् । अत एव नैकदेशरूपकम्,
अवयवानां प्रतिपादनात्। करणचरणष्षट्चरणतां यात्विति फलत्वेनोद्देशात्
अवयवत्वं तस्य । अतोऽस्मिन् चरण इति आरोपविषया चरणमुपादाय
 
1
 
क्षारोपणात्
 
१८३
 
CC-0. Jangamwadi Math Collection. Digitized by eGangotri