2023-02-16 08:26:37 by ambuda-bot
This page has not been fully proofread.
१८२
सौन्दर्यलहरी सव्याख्या
नखैर्नाकस्त्रीणां करकमलसङ्कोचशशिभिः
तरूणां दिव्यानां हसत इव ते चण्डि चरणौ ।
फलानि स्वस्स्थेभ्यः किसलयकराग्रेण ददतां
दरिद्रेभ्यो भद्रां श्रियमनिशमह्वाय ददतौ ॥ ८९ ॥
नखैः नखरैः, नाकस्त्रीणां सुराङ्गनानां शच्यादीनां, करकमल-
सङ्कोचशशिभिः करा एव कमलानि तेषां सङ्कोचे मुकुलीभावे शशिनः
चन्द्रात्मकाः पाददर्शनवेलायां नखकान्तयः चन्द्रकिरणा इव तत्करान्
मुकुलयन्ति अञ्जलिसन्धानं कारयन्ति । तरूणां वृक्षाणां दिव्यानां दिवि
भवानां, हसतः । तरूणां हसत इति कर्मणि षष्ठी । हसन्तौ इव ते तव,
चण्डि ! भगवति । चरणौ फलानि स्वस्स्थेभ्यः स्वर्गस्थेभ्य एव न तु
दरिद्रेभ्य इति विशेषणवशात्प्रतीयते। किसलयकराग्रेण किसलया एव करा:
तेषाममं तेन, ददतां दिशतां, दरिद्रेभ्यो दीनेभ्यश्च, भद्रां अमन्दां, श्रियं
लक्ष्मीं, अनिशं सर्वदा, अह्वाय शीघ्रं, ददतौ ॥
अयमर्थः—कल्पवृक्षाः किसलयकरै : स्वस्थेभ्य एव आशानुसारेण
शनैः शनैः फलं ददति । ते पादाम्बुजं तु स्वस्स्थेभ्यो दरिद्रेभ्यश्च शीघ्रं भद्रां
श्रियं ददातीति व्यतिरेकः ॥
-
अत्रेत्यं पदयोजना — हे चण्डि ! किसलयकराग्रेण स्वस्स्थेभ्यः एव
फलानि ददतां दिव्यानां तरूणां दरिद्रेभ्यो भद्रां श्रियं अनिशमद्दाय ददतौ
ते चरणौ नाकस्त्रीणां करकमलसङ्कोचशशिभिः नखैः हसत इव ॥
अत्र व्यतिरेकालङ्कारः स्फुट एव । स च स्वस्स्थेभ्य इत्यत्र श्लेषानु-
प्राणित इत्यनुसन्धेयम् ॥ ८९ ॥.
CC-0. Jangamwadi Math Collection. Digitized by eGangotri