This page has not been fully proofread.

अष्टाशीतितमः श्लोकः
 
पदं ते कीर्तीनां प्रपदमपदं देवि विपदां
 
कथं नीतं सद्भिः कठिनकमठीकर्परतुलाम् ।
 
कथं वा बाहुभ्यासुपयमनकाले पुरभिदा
 
यदादाय न्यस्तं दृषदि दयमानेन मनसा ॥ ८८ ॥
 
१८१
 
पदं स्थानं; ते तव, कीर्तीनां यशसां, प्रपदं पादाग्रं अपदं अस्थानं,
देवि ! द्योतनशीले । भगवति । विपदां आपदां, कथं कथङ्कारं, नीतं
प्रापितं, सद्भिः कवीन्द्रैः, कठिनकमठीकर्परतुलां कठिनस्य कमठीकर्परस्य
कूर्मपृष्ठकपालस्य तुलां, कथं वा कथंकृत्वा, बाहुभ्यां हस्ताभ्यां, उपयमन-
काले विवाहसमये, पुरभिदा सदाशिवेन, यत् पदं आदाय गृहीत्वा, न्यस्तं
क्षिप्तं, हृषदि उपलाधारभूता शिला दृषत् उपलं हरिद्रादिद्रव्यस्य पेषणिका
शिला । तदाधारभूता शिला दृषत् । सा विवाहसमये अश्मस्थापनानुष्ठानार्थ
पात्रत्वेन प्रयुक्ता । तस्यां दृषदि दयमानेन दयावता, मनसा । दयां
विहायातिमृदुलं पादाम्बुजं दृषदि कथं स्थापितं शम्भुना । अमृतस्यन्दिनीभिः
वाग्विलासैः कवीश्वराः कमठपृष्ठेन तुल्यत्या कथं ? एतदुभयमयुक्तमित्यर्थः ॥
 

 
अत्रेत्थं पदयोजना — हे देवि ! कीर्तीनां पदं विपदामपदं ते प्रपदं
सद्भिः कठिनकमठीकर्परतुलां कथं नीतम् ? दयमानेन मनसा पुरभिदा
उपयमनकाले बाहुभ्यां यदादाय कथं वा दृषदि न्यस्तम् ?
 
अत्रानन्वयालङ्कारो ध्वन्यते, सदृशान्तरनिषेधात् असदृशस्य पादाम्बुज-
वस्तुनः स्वयमेव स्वस्य तुल्यमिति प्रतीतेः ॥ ८८ ॥
 
CC-0. Jangamwadi Math Collection. Digitized by eGangotri