This page has not been fully proofread.

सौन्दर्यलहरी सव्याख्या
 
अत्रातिशयोक्तिरलङ्कारः, तुलाकोटिक्काणानां किलिकिलितध्वनित्वेनाध्य-
बसानात् भेदे अमेदनिबन्धनातिशयोक्तिः ॥ ८६ ॥
 
१८०
 
हिमानीहन्तव्यं हिमगिरिनिवासैकचतुरौ
 
निशायां निद्राणं निशि चरमभागे च विशदौ ।
वरं लक्ष्मीपात्रं श्रियमतिसृजन्तौ समयिनां
सरोजं त्वत्पादौ जननि जयतश्चित्रमिह किम् ॥ ८७ ॥
 
हिमानीहन्तव्यं हिमान्या हिमसंहत्या हन्तव्यं नाशितव्यं,
हिमगिरिनिवासैकचतुरौ सर्वदा हिमगिरावेव वसन्तावित्यर्थः । निशायां
शर्वर्या, निद्राणं मुकुलिंत, निशि चरमभागे च विशदौ प्रसन्नौ, चेतना-
शक्तेः तत्रैवोत्पत्तरिति भावः । चकारात् दिवापि प्रसन्नावित्यर्थः । वरं
ईप्सितं, लक्ष्मीपात्रं लक्ष्म्या अधिष्ठितमित्यर्थः । श्रियं लक्ष्मीं, अतिसृजन्तौ
उत्पादयन्तौ, समयिनां स्वभक्तानाम्, समयस्वरूपं 'तवाधारे मूले'* इति
श्लोके निरूपितम् । सरोजं कमलं कर्मभूतं, त्वत्पादौ जननि ! हे मातः !
जयतः विजयते । चित्रं आश्चर्य, इह अस्मिन्नर्थे, किं न किमीत्यर्थः ॥
 

 
अत्रेत्थं पदयोजना
— हे जननि ! हिमगिरिनिवासैकचतुरौ निशि
चरमभागे च विशदौ समयिनां श्रियमतिसृजन्तौ त्वत्पादौ हिमानीहन्तव्यं
निशायां निद्राणं वरं लक्ष्मीपात्रं सरोजं जयतः ; इह किं चित्रं, आधिक्यस्य
स्फुटत्वादित्यर्थः ॥
 
अत्र व्यतिरेकालङ्कारः स्फुटः ॥ ८७ ॥
 
* ४७ श्लो.
 
CC-0. Jangamwadi Math Collection. Digitized by eGangotri