This page has not been fully proofread.

षडशीतितमः लोकः
 
मृषा कृत्वा गोत्रस्खलनमथ वैलक्ष्यनमितं
ललाटे भर्तारं चरणकमले ताडयति ते ।
 
चिरादन्तश्शल्यं दहनकृतमुन्मूलितवता
 
तुलाकोटिक्काणैः किलिकिलितमीशानरिपुणा ॥ ८६ ॥
 
१७९
 
मृषा अकस्मादेव, कृत्वा गोत्रस्खलनं गोत्रस्य स्खलनं नाम
नायिकायामनुरागं प्रकटयतस्तत्समीप एव प्रमादात् नायिकान्तराविष्टचित्तस्य
तन्नामोच्चारणम् । अथ गोत्रस्खलनानन्तरं, वैलक्ष्यनमितं वैलक्ष्येण इति-
कर्तव्यता मौढ्न नमितम् । अत्र नमितमिति वैलक्ष्यप्राधान्यात वैलक्ष्येणैव
नमितः न तु स्वयं वैलक्ष्यान्नमितः । अत्युत्कृष्टं वैलक्ष्यमासीदिति नमितशब्दं
प्रयुञ्जानस्य भावः । ललाटे निटिलप्रदेशे, भर्तारं पशुपतिं, चरणकमले
पादाम्बुजे, ताडयति घ्नति सति चरणकमलेन भर्तुर्ललाटं ताडितवत्यां
भवत्यामित्यर्थः । ललाटताडनं भर्तृपर्यन्तं गच्छतीति भर्तारं ताडयतीत्युक्ति-
राजसीति एतादृशप्रयोगा: महाकविशक्षावशादायाताः सहृदयहृदयाह्लादकाः ।
ते तब, चिरात् चिरकालमनुस्यूतं, अन्तरशल्यं हृदयशल्यं, वैरमित्यर्थः ।
दहनकृतं नयनामिना प्लोषणकृतं, उन्मूलितवता तुलाकोटिक्काणैः तुला
नुपुरं तस्य कोटयः अग्राणि, तैरन्तर्गता मणयः क्षुद्रघण्टादयः लक्ष्यन्तेः
तेषां क्वाणैः शिञ्जितैः, । किलिंकिलितम् किलिकिलेत्यनुकरणं विजयिनः
सुप्रसिद्धम् । किलिकिलिरवः कृत इत्यर्थः । ईशानरिपुणा मन्मथेन ।
मन्मथस्य ईशानं प्रति रिपुत्वं तदा सिद्धमिति भावः ॥
 

 
अत्रेत्थं पदयोजना — हे भगवति ! मृषा गोत्रस्खलनं कृत्वा अथ
वैलक्ष्यनमितं भर्तारं ते चरणकमले ललाटे ताडयति सति ईशानरिपुणा
चिरात् दहनकृतं अन्तःशल्यं उन्मूलितवता तुलाकोटिक्काणैः किलिकिलितम् ॥
 
CC-0. Jangamwadi Math Collection. Digitized by eGangotri