2023-02-16 08:26:36 by ambuda-bot
This page has not been fully proofread.
पञ्चाशीतितमः श्लोकः
१७७
प्रतीतौ विशेषाकारेण ययोरित्यस्यान्वय इति न पौनरुक्त्यम् । पशुपति-
जटाजूटतटिनी पशुपतेः शिवस्य जटाजूटे कपर्दे तटिनी गङ्गा, ययोः
चरणयोः, लाक्षालक्ष्मीः लाक्षारसकान्तिः, अरुणहरिचूडामणिरुचिः
अरुणश्चासौ हरिचूडामणिश्च कौस्तुभः तस्य रुचिः रक्तिमा ॥
अयमर्थः– प्रणयकोपशान्तये प्रणतस्य पशुपतेः जटाजूटवर्तिनी
गङ्गा पादाग्रवर्तिनी आसीदिति गङ्गायाः पाद्यजलत्वं कथितम् । प्रतिदिनं
सायंप्रातः सेवार्थ नमस्कुर्वाणस्य विष्णोः मकुटघटितकौस्तुभमणेः श्वेतवर्णस्य
लाक्षारसप्रसादजन्योऽरुणिमेति ध्येयम् ॥
-
अत्रेत्थं पदयोजना — हे जननि ! तब यौ चरणौ श्रुतीनां मूर्धानः
शेखरतया दधति । हे मातः ! एतौ चरणौ ममापि शिरसि दयया घेहि ।
ययोः पाद्यं पाथः पशुपतिजटाजूटतटिनी ययोः लाक्षालक्ष्मीः अरुणहरिचूडा-
मणिरुचिः ॥
एतदुक्तं भवति–भगवत्याः पादाम्बुजद्वितयस्य वेदमूर्धनि सदाशिव-
मूर्धनि विष्णुमूर्धन्येव सञ्चार इति मूर्धसञ्चारस्वाभाव्यमस्ति । अतो मम
मूर्धन्यपि सञ्चरतु पादाम्बुजमिति प्रार्थनासामञ्जस्यमिति कवेरभिप्रायः । यद्या-
•प्रपञ्चजनयित्र्याः सादाख्यायाः प्रपञ्चान्तःपातिनः हरिविरिञ्चिपशुपति-
वेदान्ताः पादाम्बुजं शिरसि धारयन्ति तन्निर्णेजनजलेन पवित्रितगात्रा:
तन्महिन्ना तत्तदधिकारान् भजन्त इति युज्यत एवेति ॥
अत्र रूपकालङ्कारः स्पष्टः ॥ ८४ ॥
.
नमोवाकं ब्रमो नयनरमणीयाय पदयोः
तवास्मै द्वन्द्वाय स्फुटरुचिरसालक्तकवते ।
CC-0. Jangamwadi Math Collection. Digitized by eGangotri
12