This page has not been fully proofread.

सौन्दर्यलहरी सभ्याख्या
 
शरगम दशशरफला इति पदद्वयेन पादाङ्गुलीनां शराणां च अभेदाध्यवसाय-
प्रतीतेरित्यलम् ॥ ८३ ॥
 
श्वतीनां मूर्धानो दधति तव यौ शेखरतया
ममाप्येतौ मातः शिरसि दयया धेहि चरणौ ।
ययोः पद्यं पाथः पशुपतिजटाजूटतटिनी
ययोर्लाक्षालक्ष्मीररुणहरिचूडामणिरुचिः ॥ ८४ ॥
 
श्रुतीनां निगमानां, सूर्धानः शिरांसि वेदान्ता इत्यर्थः । दधति
धारयन्ति प्रतिपादयन्तीत्यर्थः । तव भवत्याः, यौ चरणौ पादौ, शेखरतया
उत्तंसतया । यद्वा – श्रुतीनां श्रुतिबधूनां मूर्धानः श्रुतयः भगवतीपादाब्जं
उत्तंसयन्ति । यथोक्तम् – श्रुतिवाक्यं शक्ति प्रति वसिष्ठेन-
नमो देव्यै महालक्ष्म्यै श्रियै सिद्ध्यै नमो नमः ।
ब्रह्मविष्णुमहेशानवेदकैः पूजिताङ्घ्रये ॥
 
बेदकैरित्यत्र वेदानां कैः शिरोमिरिति ।
 
नमस्त्रिपुरसुन्दर्यै शिवायै विश्वमूर्तये ।
 
इत्यादि ।
 
एवं स्तुता महादेवी श्रुतिमिः प्रीतमानसा ।
प्राह ताः प्रति ताहग्भिः वचोभिरमरेश्वरी ॥
इत्यादि वसिष्ठसंहितायाम् । ममापि एतौ चरणौ, मातः। जननि ! शिरसि
मूर्धनि, दयया कृपया कृपाविष्टचित्तेनेत्यर्थः । घेहि निघेहि । चरणौ पादौ
ययोः चरणयोः सम्बन्धि, पाद्यं पाथः पादनिर्णेजनजलम् । यद्यपि पाद्यमित्युक्ते
पादसम्बन्धः प्रतीयते तथापि पाद्यमित्युक्ते पादप्रक्षालनार्ह पाद्यमित्यर्हतामात्र-
CC-0. Jangamwadi Math Collection. Digitized by eGangotri