This page has not been fully proofread.

द्वितीयमुद्रणप्रस्तावना
 
भो महाभागाः । प्रकटितः किल प्राच्यकोशागारादस्मात् १८९६
तमे क्रिस्ताब्दे श्रीमल्लक्ष्मीघरव्याख्यया समलङ्कृतः श्रीमच्छङ्करभगवत्पाद-
विरचितस्सौन्दर्यलहर्याख्यो ग्रन्थः साकं भास्कररायविरचितभावनोपनिषद्भाष्येण
देवीस्तोत्रपञ्चकेन च । ग्रन्थोऽयं मार्की १५ संवत्सरेभ्यो दुर्लभतां गतः । तदा
प्रभृत्यने केषामपेक्षानुसारेण ग्रन्थस्यास्य पुनर्मुद्रणे प्रवृत्ताः वयम् । पुनर्मुद्रणेऽ
स्मिन् नुतनतथा सङ्गृहीतानां कोशानां परिशीलनेन पाठान्तराणि प्रदर्शितानि ॥
 
सौन्दर्यलहर्या ख्यस्यास्य ग्रन्थस्य त्रिंशतोऽप्यधिकानि व्याख्यानानि
विद्यन्त इति विज्ञायते । व्याख्यानानामेषामभिधानानि श्रीयुतानन्तकृष्ण-
शास्त्रिभिः आनन्दलहर्याः स्वीयांग्लेयपरिवर्तने प्रकाशितानिं । संशोधना-
लयेऽस्मिन्नधो निर्दिष्टानि षड् व्याख्यानानि वर्तन्ते-
(१) सुधाविद्योतिनी-प्रवरसेनकृता
(२) डिण्डिमा व्याख्या
 
(३) कामदेवसुरीया टीका -
 
(४) सहजानन्दीयव्याख्या
 
(५) सौभाग्यवर्धिनी-कैवल्याश्रमिकृता
(६) लक्ष्मीधरव्याख्या-लक्ष्मीधराचार्यकृता चेति ॥
 
र्वन्ति ।
 
केचन व्याख्यातारः सौन्दर्यलहरीप्रन्थनिमातरि अभिप्रायभेदमा विष्कु
तथा हि सुधाविद्योतिनीकारः– 'प्रवरसेनो द्रमिडदेशाधिपतिना
द्रमिडाह्वयेन स्वपित्रा परित्यक्तः देव्यनुग्रहेण ग्रन्थमिमं विरचितवान्' इत्यवादीत् ।
नैतदुचितम् । यतः द्रमिडाधिपतेर्द्रमिडस्य राजधान्यादिकं कालो मन्थान्तराणि
 
CC-0. Jangamwadi Math Collection. Digitized by eGangotri