This page has not been fully proofread.

भ्यशीतितमः श्लोकः
पराजेतुं रुद्रं द्विगुणशरगर्भों गिरिसुते
 
निषङ्गौ जङ्घे ते विषमविशिखो बाढमकृत ।
यदग्रे दृश्यन्ते दशशरफलाः पादयुगली-
नखाग्रच्छद्मानः सुरमकुटशाणैकनिशिताः ॥ ८३ ॥
 
पराजेतुं तिरस्कर्तु रुद्रं हरं, द्विगुणशरगभौँ द्विगुणीकृताः शराः
पञ्चबाणाः गर्भे ययोस्तौ । गिरिसुते ! पार्वति ! निषङ्गौ तूणीरौ, जङ्घे
जङ्घाकाण्डौ, ते तव विषिमविशिखः पञ्चबाणः, वाढं ध्रुवं, अकृत कृतवान् ।
यदग्रे ययोः निषङ्गयोर, दृश्यन्ते । दशशरफलाः दशानां शराणां
द्विगुणितानां पञ्चानामित्यर्थः तेषां फलाः अयोमुखानि, पादयुगलीनखाग्र-
च्छद्मानः पादयोः प्रपदयोः युगली द्वितयं तस्या नखाग्राणां दशानां छद्म
व्याजो येषां ते, सुरमकुटशाणैकनिशिताः सुराणां इन्द्रादीनां मकुटेष्वेव
शाणेषु एकनिशिताः मुख्यतया उत्तेजिताः ॥
 
अत्रेत्थं पदयोजना — हे गिरिसुते । विषमविशिखः रुद्रं पराजेतुं
द्विगुणशरगम निषङ्गौ ते जङ्घे अकृत बाढम् । यदये पादयुगलीनखाग्र-
च्छद्मानः सुरमकुटशाणैकनिशिताः दशशरफला दृश्यन्ते ॥
 
अत्र उत्प्रेक्षालङ्कारः, जङ्घयोः तूणीरतया संभावनात् । अपह्नवालङ्कारश्च,
नखाग्राणां फलत्वेनापहवात् । अनयोस्संसृष्टिः, अपृथविस्थत्या प्रयोज्यप्रयोजक-
भावावगतेः । विषमविशिखो बाढमक्कृतेत्यत्र अतिशयोक्तिरलङ्कारः, साधारण-
ब्रह्मसृष्टिव्यतिरिक्तत्वेन प्रतीतेः । एतच्च पूर्वमेव स्पष्टीकृतं 'कुचौ सद्यः स्वि-
द्यत्'* 'इति श्लोकव्याख्यानावसरे । अलङ्कारेण अलङ्कारध्वनिरपि, द्विगुण-
८०.
 
१७५
 
लो. ' इत्यादिश्लोकद्वय.
 
O
 
CC-0. Jangamwadi Math Collection. Digitized by eGangotri