This page has not been fully proofread.

१७४
 
सौन्दर्यलहरी सब्याख्या
 
शुण्डान् कनककदली काण्डपटलीं उभाभ्यामूरुभ्यां उभयमपि निर्जित्य सुवृत्ताभ्यां
पत्युः प्रणतिकठिनाभ्यां जानुभ्यां विबुधकरिकुम्भद्वयमपि निर्जित्य असि वर्तसे
स्फुरसीति यावत् ॥
 
अत्र भवच्छब्दयोगेऽपि असीति मध्यमपुरुष एव भवति, तस्य
संबोधनमात्रपरत्वात् । अत्रेदं तत्त्वम् - भवच्छन्दो द्विविधः संबोध्यपरः
संबोधनमात्रपरश्चेति । सम्बोध्यपरत्वे भवच्छब्दस्य युष्मदर्थत्वाभावात्
'युष्मयुपपदे' इत्यादिना प्राप्त्यभावात् शेषे प्रथम एव तद्योगे । यथा - "सूते
जगन्ति भवती भवती बिभर्ति जागर्ति तत्क्षयकृते भवती भवानि' इत्यादि ।
यदा संबोधनमात्रपरत्वं भवच्छब्दस्य तदा युष्मदर्थत्वात् मध्यमपुरुषः स्यादेव ।
यथा 'भवति मिक्षां देहि' इति । तत्र संबोधनमात्रपरत्वेऽपि ङीप्प्रत्ययः
गौरादौ भवतेः प्रातिपदिकस्य पाठात् सिद्धः । अत एंव रक्षित आह - 'भवतु
प्रातिपादिकसामर्थ्यात् स्त्रीलिङ्ग एव भवच्छब्दस्य संबोधनमात्रपरत्वम्' इति ।
अयमाशयः - भवच्छन्दस्य सर्वनामसु 'भवतु' इति प्रातिपादिकग्रहणात्' 'उगि-
तश्च' इति ङीप् सिद्ध एवेति अत्र गौरादौ पठितस्य भवच्छब्दस्य वैयर्थ्यात्
स्त्रीत्व एव संबोधनमात्रपरत्वमिति ज्ञापयतीति ॥
 
नन्वेवं रक्षितेनैव "युष्मदस्मदोः स्त्रीपुन्नपुंसकेषु तुल्यलिङ्गत्वं, संबोधन-
मात्रपरत्वात् युष्मदस्मदोः, एकद्विबहुत्वपरत्वं तु संबोध्यलक्षणतया । न च
लिङ्गलक्षणा, आकांक्षाभावात्" इत्युक्तम् । तद्वद्भवच्छब्दस्याप्यलिङ्गत्वं प्राप्नो-
तीति । मैवं, दत्तोत्तरत्वादित्यलमतिविस्तरेण । यत्तु 'त्वामस्मि वच्मि विदुषां '
इति श्लोकव्याख्यानावसरे काव्यप्रकाशिकाटीकाकारेण भास्करेणोक्तं तदमूल-
मिति नोपन्यस्य दूषितम् ॥
 
अत्रोपमालङ्कारस्स्पष्ट इव ॥ ८२ ॥
 
1 चर्चास्तवः श्लो. ४.
 
CC-0. Jangamwadi Math Collection. Digitized by eGangotri