This page does not need to be proofread.

<page>

द्वयशीतितमः श्लोकः

भ्यामेव विधेयमिति हिमाद्रिगतगुरुत्व विस्तारौ हिमाद्रेः भूधरत्वात् भूमिगत-

गुरुत्वविस्ताराभ्यामधिकाविति भावेन गृहीत्वा तत्तिरस्करणमिति क्षितिधरपतिः

अशेषां वसुमतीमिति च पदं प्रयुञ्जानस्य भावः ॥

अत्रातिशयोक्तिरलङ्कारः, हिमाद्विगतगुरुत्वविस्तारयोः पार्वतीनितम्ब-

गतगुरुत्वविस्तारयोर्भेदेऽप्यभेदेनाध्यवसानात् । सेयं भेदे अभेदनिबन्धनाद-

तिशयोक्तिरलङ्कारः ॥ ८१ ॥

ऊरू जानुनी च सकृदेव वर्णयति-

<verse lang="sa">
करीन्द्राणां शुण्डान् कनककदलीकाण्डपटलीं

उभाभ्यामरुभ्याम्नुभयमपि निर्जित्य भवति ।

सुवृत्ताभ्यां पत्थुः प्रणतिकठिनाभ्यां गिरिसुते

विधिज्ञे जानुभ्यां विबुधकरिकुम्भद्वयमसि ॥ ८२ ॥

</verse>

करीन्द्राणां गजेन्द्राणां, शुण्डान् करदण्डान्, शुण्डाशब्दस्य पुल्लिङ्ग-

ताप्यस्ति इति रक्षितमतम् । कनककदलीकाण्डपटलीं सुवर्णरम्भास्तम्भ-

संहतिं, उभाभ्यामूरुभ्यां उभयं करिकररम्भास्तम्भात्मकं, अपि निर्जित्य

विजित्य, भवति! त्वं, सुवृत्ताभ्यः शोभनाभ्यां, वर्तुलाभ्यां पत्युः परमेश्वरस्य,

प्रणतिकठिनाभ्यां प्रणतिभिः कठिनाभ्यां प्रणतिदशायां जान्वोः भूमि-

स्पर्शादित्यर्थः । गिरिसुते! हिमाद्रितनये, विधिज्ञे ! विधिं वेदार्थ जानातीति

विधिज्ञा सर्वज्ञेत्यर्थः । यद्वा - वेदार्थानुष्ठात्री । अत एव पत्युर्नमस्कारः प्रति-

दिनं वैघ इति कृतः न तु तस्याधिक्यानुरोधादिति नर्मवचनम्। तस्याः संबुद्धिः ।

जानुभ्यां विबुधकरिकुम्भद्वयं दिग्दन्तिकम्भस्थलद्वितयं असि भवसि ॥

अत्रेत्थं पदयोजना — हे विधिज्ञे ! गिरिसुते । भवति ! करीन्द्राणां

CC-0. Jangamwadi Math Collection. Digitized by eGangotri

</page>