This page has not been fully proofread.

१७२
 
सौन्दर्यलहरी सव्याख्या
 
अतस्ते विस्तीर्णो गुरुरयमशेषां वसुमतीं
 
नितम्बप्राग्भारस्स्थगयति लघुत्वं नयति च ॥ ८१ ॥
 
गुरुत्वं गौरवं, विस्तारं आयामपरिणाहं, क्षितिधरपतिः हिमवान्,
पार्वति ! शैलतनये ! निजात् स्वकीयात्, नितम्बात् नितम्बप्रदेशात्,
आच्छिद्य अवयुत्य, त्वयि भवत्यां, हरणरूपेण हरणात्मनां, निदधे समर्पित-
वान् । हरणं नाम स्त्रीधनं– अध्यग्न्यध्यावाहनिकम् । यथोक्तं हारीतेन-
अध्यग्न्यध्यावाहनिकं हरणं स्त्रीधनं स्मृतम् । इति
 
-
 
अस्यार्थः-
अग्निमधिकृत्य दत्तमध्यग्नि विवाहसमये अग्निसमीपे पित्रा-
दिभियद्दत्तं तदध्यमि, विवाहानन्तरं वधूं गृहीत्वा स्वगृहं प्रतिजिगमिषाव-
सरे पित्रादिभिर्यद्दत्तं तदध्यावाहनिकमिति * । एतदुभयं हरणशब्दवाच्यमिति
मन्वादिभिः स्मृतमिति । अतः तस्मात्कारणात्, ते तब विस्तीर्णः आयामतः,
गुरुः पृथुः, अयं परिदृश्यमानः, अशेषां कृत्स्त्रां, वसुमतीं पृथ्वीं नितम्ब -
प्राग्भार: नितम्बस्य प्राग्भारः अतिशयः, स्थगयति छादयति । लघुत्वं
लाघवं नयति प्रापयति च । शकारः शङ्काच्छेदे अस्मिन्नर्थे न शङ्कितव्य-
मित्यर्थः ॥
 
अत्रेत्थं पदयोजना—हे पार्वति ! क्षितिधरपतिः गुरुत्वं विस्तारं
निजात् नितम्बादाच्छिद्य त्वयि हरणरूपेण निदघे । अतः ते अयं नितम्ब-
प्राग्भारः गुरुः विस्तीर्णस्सन् अशेषां वसुमतीं स्थगयति लघुत्वं नयति च ॥
 
विस्तारेण स्थगनं गुरुत्वेन लाघवापादनमित्यर्थः । प्रपञ्चे बसुमत्यामेव
गुरुत्वविस्तारौ एकत्र स्थितौ तयोस्तिरस्करणमेकत्र स्थिताभ्यां गुरुत्वविस्तारा-
* केचित् । अपरे-आइवनीयसमीपे यज्ञादौ पित्रादिमिर्यइत्तं तद्ध्याहवनीयक-
मिति, इत्यधिकः पाठः•
 
CC-0. Jangamwadi Math Collection. Digitized by eGangotri