This page has not been fully proofread.

एकाशीतितमः श्लोकः
 
मन्मथेन, त्रिधा त्रिप्रकारेण, नद्धं बद्धं, देवि ! दीव्यन्ति ! भगवति !
त्रिवलि तिस्रो वलयो विभङ्गाः यस्य तत् । लवलीवल्लिभिरिव लवलीनां
वल्लयः ताभिः । पीतवल्ली लवली, तत्पुष्पाणि श्वेतानि । अकारादिनिघण्टौ तु-
लवलीत्युक्त्वा तल्लता वनकुलत्थलतेत्युक्तम् । यथात्रापि स्वीकार्यम् । इवशब्दः
संभावनायां, ध्रुवमित्यर्थः । इवशब्दस्य
संभावनाद्योतकत्वमप्यस्तीति
पूर्वमेवोक्तम् ॥
 
अत्रेत्थं पढ़योजना — हे देवि ! सद्यः स्विद्यत्तटघटितकूपीसभिदुरौ
दोर्मूले कषन्तौ कनककलशा भौ कुचौ कलयता तनुभुवा भङ्गादमितिमं
त्रातुं त्रिवलि तव वलग्नं लवलीवल्लिभिः त्रिधा नद्धमिव ॥
 
अत्र उत्प्रेक्षालङ्कारः, त्रिवलीनां लवलीवल्लीत्वेन संभावनात् । पूर्वार्धे
अतिशयोक्तिरलङ्कारः, भगवत्याः कुचनिर्माणे मन्मथस्यैवाधिकारो न जरद्-
ब्रह्मण इति जरद्ब्रह्मनिर्माणसंबन्धेऽप्यसंबंधोक्त्या अभेदाध्यवसाय: कवि-
कृतवस्तुकृतयोः सौन्दर्ययोरेवेति । उभयोरङ्गाङ्गिभावेन सङ्करः । नन्वेवं कुचौ
रचयता मन्मथेनेत्यनुवाद्यविशेषणमहिम्ना मन्मथकर्तृत्वस्य सिद्धवदनुमानात्
कुचनिर्माणे वर्तमानसंबन्धाभावात् असंबन्धे संबन्धोक्तरप्याञ्जस्यमेवेति
चेत् – मैवम् ; कचौ कनककलशाभौ कलयतेति शतृप्रत्ययेन वर्तमानार्थेन
कुच करणस्य वर्तमानकालसंबन्धप्रतीतेरसंबन्धे संबधोक्तिराञ्जसीति न
वाच्यम् । भूतकालसम्बन्धेऽपि भूतकालक्रियावाचकाख्यातान्तनातुप्रयोगे
युज्यते सम्बन्धेऽप्यसंबधकथनं न त्वनुवाद्यगतत्वेन सिद्धवदनुवादे ॥ ८० ॥
 
गुरुत्वं विस्तारं क्षितिधरपतिः पार्वति निजात्
नितम्बादाच्छिद्य त्वयि हरणरूपेण निदघे ।
 
CC-0. Jangamwadi Math Collection. Digitized by eGangotri