This page has not been fully proofread.

सौन्दर्यलहरी सब्याख्या
मध्यस्येत्येवमादिप्रयोगाः सहृदयहृदयाह्लादकारिणो महाकविशिक्षा-
भ्याससमासा दिताः । एतादृशप्रयोगनिपुणः महाकविरित्युच्यते ॥
 
अत्रोपमालङ्कारः, भननदी कूलवर्तिमहीरुहशिखामूलिकासाम्यं मध्य-
स्येति ॥ ७९ ॥
 
कुचौ सद्यस्विद्यत्तटघटित कूर्पासभिदुरौ
कषन्तौ दोर्मूले कनककलशाभौ कलयता
तव त्रातुं भङ्गादलमिति वलग्नं तनुभुवा
 
त्रिधा नद्धं देवि त्रिवलि लवलीवल्लिभिरिव ॥८०॥
 
1
 
कुचौ स्तनौ, सद्यः तदानीमेव, स्विद्यत्तटघटितकूर्पासभिदुरौ
स्विद्यन्तौ स्वेदवन्तौ तटौ पाश्र्व तयोर्घटितस्य कूपीसस्य भिदुरौ । 'कर्म-
कर्तरि कुरच्' इत्युत्र कर्तर्यपि कुरच । रक्षितस्तु– 'कर्मणि कर्तरि च
कुरच्' इति व्याचष्टे। 'सद्यस्तनघटितकूपसमिदुरौ' इति पाठे सद्यस्तनं
तदानीन्तनं नूतनत्वेन घटितं कूपीसकं तस्य भिदुरौ । प्रतिक्षणं प्राणेश्वरस्य
सदाशिवस्य रूपानुसन्धानेन उत्सित्तावयवैर्भिद्यते सन्धिबन्धेषु कञ्चुलिकेति
भावः । कपन्तौ निकषन्तौ दोर्मूले कक्षप्रान्तदेशे, कनककलशाभौ कनक-
कलशयोर्हेमकुम्भयोरिव आभा सौभाग्यं ययोस्तौ, कल्यता रचयता निर्मिमाणेन,
तव भवत्याः, त्रातुं रक्षितुं वलममिति शेषः । यद्वा – प्रथमान्तस्य बलभ-
शब्दस्य अत्र कर्मत्वेनान्वयः । भङ्गात् स्तनभरजनितात् अलमिति अलं-
शब्दोऽत्र वारणार्थः । भङ्गो मा भूदित्यर्थः । वलग्नं मध्यप्रदेशं, तनुभुवा
 
-
 
1 मिदुरौ भेदकरौ.
 
CC-0. Jangamwadi Math Collection. Digitized by eGangotri
 
.