This page has not been fully proofread.

एकोनाशीतितमः श्लोकः
 
१६९
 
अत्रेत्थं पदयोजना — हे गिरिसुते! तव नाभिः स्थिरो गङ्गावर्तः स्तनमुकुल-
रोमावलिलताकलावालं कुसुमशरते जोहुतभुजः कुण्डं रतेर्लीलागारं गिरिश-
नयनानां सिद्धर्बिलहारं किमपि विजयते ॥
 
अत्रोल्लेखालङ्कारः, एकस्या नामेरनेकरीत्या उल्लेखात् । नायमतिशयोक्तिः,
एकस्या नेकत्वोल्लेखनादेव । नाप्यतिशयोक्तिमाला, किमपीत्यध्यवसितुमशक्य-
त्वात् किमपीत्यनेन सार्ध मालात्वस्थानुचितत्वादिति रहस्यम् ॥ ७८ ॥
 
निसर्गक्षीणस्य स्तनतटभरेण क्लमजुषो
नमन्मूर्तेर्नारी तिलक शनकैट्यत इव ।
 
चिरं ते मध्यस्य त्रुटिततटिनीतीरतरुणा
समावस्थास्थेम्नो भवतु कुशलं शैलतनये ॥ ७९ ॥
 
निसर्गक्षीणस्य स्वभावेन क्षीणस्यातिकृशस्य, स्तनतटभरेण स्तनतटयोः
कुचतटयोः भरेण, क्लमजुषः क्लान्तिमतः नमन्मूर्तेः नारीतिलक ! स्त्रीरत्न-
भूते ! शनकैः स्टोकं, त्रुट्यत इव भिद्यमानस्येव, चिरं बहुकालं, ते तब,
मध्यस्य अवलमस्य त्रुटिततटिनीतीरतरुणा त्रुटिते भग्ने तटिन्याः बाहिन्याः
तीरे तरुः वृक्षः तेन समावस्थास्थेनः समायां तुल्यायां अवस्थायां स्थेमा
स्थैर्य यस्य, तस्य भवतु भूयात् । कुशलं क्षेमं त्रुटनाभावः, शैलतनये
पार्वति !
 
-
 
अत्रेत्थं पदयोजना — हे शैलननये ! नारीतिलक ! निसर्गक्षीणस्य
स्तनतटभरेण क्लृमजुषः नमन्मूर्ते: शनकैः त्रुट्यत इव त्रुटिततटिनीतीरतरुणा
समावस्थास्थेम्नः ते मध्यस्य चिरं कुशलं भवतु ॥
 
CC-0. Jangamwadi Math Collection. Digitized by eGangotri