This page has not been fully proofread.

सौन्दर्यलहरी सव्याख्या
 
अत्रेत्थं पदयोजना - हे शिवे ! जननि ! तव कृशे मध्ये यदेतत्कालि
न्दीतनुतरतरङ्गाकृति किञ्चित् रोमावलिरूपं वस्तु सुधियां यद्भाति कुचकलश-
योरन्तरगतं तनुभूतं व्योम अन्योन्यं विमर्दादेव कुहरिणीं नाभिं प्रविशदिव
भाति । नीलं मूर्त नभः कुचकलशविमर्दवशात् अधोभागे सस्तं नामिपर्यन्तं
जतुलतान्यायेनावतिष्ठते तद्रोमावलिं वदन्तीति भावः ॥
 
१६८
 
अत्रोत्प्रेक्षालङ्कारः, रोमलतांयाः गगनलतिकात्वेन सम्भावनात् ।
प्रथमपादे निदर्शनालङ्कारः । तरङ्गाकृतीति बिम्बप्रतिबिम्बभावाक्षेपात् ।
अनयोस्संसृष्टिः ॥ ७७ ॥
 
स्थिरो गङ्गावर्तः स्तनमुक्कुलरोमावलिलता-
'कलावालं कुण्डं कुसुमशरतेजोहुतभुजः ।
रतेललागारं किमपि तव नाभिर्गिरिसुते
 
बिलद्वारं सिद्धेर्गिरिशनयनानां विजयते ॥ ७८ ॥
 
स्थिरः विनाशरहितः, गङ्गावर्तः गङ्गायाः अम्भसां भ्रमः, आवर्तस्य
क्षणिकत्वात् तद्व्यतिरेकः स्थिर इति । स्तनमुकुलरोमावलिलता'कलावालं
स्तनावेव मुकुलौ पुष्पकोरकौ तयोः रोमावलिरेव लता आधारभूता, 'जनयित्री
तस्याः कला रेखा तस्याः आवालं आलवालम् । कुण्डं होमार्ध संपादितं वृत्तं
अभिस्थानं, कुसुमचरतेजोहुतभुजः कुसुमशरस्य मन्मथस्य तेजः दीप्तिरेव
हुतभुक् वह्निः तस्य । रतेः मदनपत्न्याः, लीलागारं विलासगृहं तत्रैव सर्वदा
मन्मथसद्भावात् तत्प्रेयसी तत्रैव वर्तत इति । किमपि अनिर्वाच्यं अति-
सुन्दरमित्यर्थः । तव नाभिः गिरिसुते ! पार्वति ! बिलद्वारं गुहाहारं, सिद्धेः
तपःसिद्धेः, गिरिशनयनानां सदाशिवचक्षुषां विजयते सर्वोत्कर्षेण स्फुरति ॥
 
1 कुलावालम्
 
2 जगज्जननी
 
तस्याः कुला किशोर:
 
CC-0. Jangamwadi Math Collection. Digitized by eGangotri