This page has not been fully proofread.

सप्तसप्ततितमः श्लोकः
 
अत्रेत्थं पदयोजना - हे अचलतनये ! मनसिजः हरक्रोधज्वालावलिभिः
अवलीढेन वपुषा गभीरे ते नाभीसरसि कृतसङ्गः । तस्माद्धूमलतिका समु
तस्थौ । हे जननि ! तां जनः तव रोमावलिरिति जानीते ॥
 
१६७
 
अत्रोत्प्रेक्षालङ्कारः, रोमराजेः धूमलतिकात्वेनोत्प्रेक्षणात् । यहा जनस्तां
जानीते इत्यनेन भ्रान्तिमान् प्रतीयते, रोमरेखादर्शनस्य धूमरेखाम्रान्तिजन-
कत्वात् । यहा — अतिशयोक्तिः जनस्तां रोमावलिमध्यवस्यतीति प्रतीतेः ।
यद्वा - निश्चयान्तसन्देहः, तां रोमावलिरिति निश्चिनोतीति । एवं चतुर्णाम-
लङ्काराणां जानीते इति पदादुत्थानात् एकवाचकानुप्रवेशेन सङ्करः ॥ ७६ ॥
 

 
,
 
यदेतत्कालिन्दीतनुतरतरङ्गाकृति शिवे
 
कृशे मध्ये किश्चिज्जननि तव यद्भाति सुधियाम् ।
विमर्दादन्योन्यं कुचकलशयोरन्तरगतं
 
तनूभूतं व्योम प्रविशदिव नाभिं कुहरिणीम् ॥ ७७ ॥
 
यतेतत् पुरः स्फुरत् । यच्छब्दस्य एतच्छब्दसहचरितस्य प्रसिद्धि-
वाचकत्वं नास्ति । अत एव पुनर्यच्छब्दोपादानम् । कालिन्दीतनुतरतरङ्गा-
कृति कालिन्द्याः यमुनायाः तनुतरतरङ्गः अतिसूक्ष्मतरङ्गः तस्याकृतिरिव
आकृतिर्षस्य तत् । शिवे । भगवति ! कृशे तनुनि, मध्ये अवलमे, किश्चित्
जननि ! तब यत् भाति स्फुरति, सुधियां विदुषां, विमर्दात् सङ्घर्षात्,
अन्योन्यं परस्परं, कुचकलशयोः, अन्तरगतं मध्यवर्ति, तनूभूतं सूक्ष्मभूतं,
व्योम गगनं प्रविशदिव प्रवेशं कुर्वदिव । नीलं नभः इत्याबालगोपाल-
प्रसिद्धम् । गगनस्य नीलिमा च मूर्तत्वं च कविप्रसिद्धम् । नाभिं कुहरिणीं
कुहरवतीम् ॥
 
CC-0. Jangamwadi Math Collection. Digitized by eGangotri