This page has not been fully proofread.

सौन्दर्यलहरी सव्याख्या
 
१६.६
 
मयमिव, स्तन्यस्य श्वेतवर्णत्वात् सरस्वती मयत्वेनोत्प्रेक्षणम्, माधुर्यात्सुधारूप -
त्वेन च । दयावत्या प्रशस्तकृपायुक्तया, दत्तं स्तन्यं द्रविलशिशुः द्रविल-
जातिसमुद्भवः बालः एतत्स्तोत्रकर्ता आस्वाद्य पीत्वा तव यत् कारणोत्,
कवीनां कवीश्वराणां प्रौढानां प्रगल्भानां मध्ये इति निर्धारणे षष्ठी ।
अजनि जातः । कमनीयः अतिरमणीयः, कवयिता कविः ॥
 
3
 
अत्रेत्थं पदयोजना — हे धरणिधरकन्ये ! तव स्तन्यं हृदयतः उत्थितः
सुधाधारासारः पयःपारावारः सारस्वतमिव परिवहतीति मन्ये । यद्यस्मात्
दयावत्या त्वया दत्तं तव स्तन्यं द्रविलशिशुरास्वाद्य प्रौढानां कवीनां
मध्ये कमनीयः कवयिता अजनि ।
 
अत्रोत्प्रेक्षाद्वयं पदव्याख्यानावसरे कथितम् । उभयोः संसृष्टिः ॥७५॥
 
हरक्रोधज्वालावलिभिरवलीढेन वपुषा
 
गभीरे ते नाभीसरसि कृतसङ्गो मनसिजः ।
समुत्तस्थौ तस्मादचलतनये धूमलतिका
 
जनस्तां जानीते तव जननि रोमावलिरिति ॥ ७६ ॥
 
हरस्य 'क्रोधज्वालावलिभिः अवलीढेन आविष्टेन, वपुषा गभीरे
निम्ने अत एव ते तव, नाभीसरसि नाभ्येव सरः तस्मिन्,
कृतसङ्गो
मनसिज: मन्मथः निमस इत्यर्थः । समुत्तस्थौ उदभूत् । तस्मात्
नामीसरसः अचलतनये ! पार्वति ! धूमलतिका धूमावलिः, अङ्गारप्रशम-
समयोद्भवा । जनः लोकः तां धूमलतिकां जानीते वर्णयति । जननि !
 
मातः ! तव रोमावलिंरिति रोमराजिरिति ॥
 
क्रोधाभेः •
 
CC-0. Jangamwadi Math Collection. Digitized by eGangotri