This page has not been fully proofread.

xix
 
संभाव्यते च लक्ष्मीधर इति चास्य स्वषष्ठपुरुषनामसमानं नामकर्मणि पित्रा
सङ्केतित नाम, विद्यानाथ इति च श्रीनाथ इतिवत् पूर्णाभिषेकानुबन्धि
अमिधानमिति, यद्यपि सरस्वतीविलासः प्रतापरुद्रनुपतिविरचितः इत्येव
तन्निबन्धान्ते दृश्यते, यथा -
 
"इति वरगजपतिगौडेश्वरनवकोटिकर्णाटकंकलुबुरि (गुल्बरगारी)-
गेश्वर जमुनापुराधीश्वर हुशन साहिस्तुतत्राणशरणरक्षणश्रीदुर्गावरपुत्रिपरमपवित्रच-
रितराजाधिराज
परमेश्वर श्रीप्रतापरुद्रदेवमहाराजविरचितस्मृतिसङ्ग्रहे-सरस्वती-
विलासे" इति, तथापि स्वाश्रयराजयशोऽनुवृत्तये स्वकृतग्रन्थं प्रतापरुद्रकृतत्वेन
व्यालिखत् ग्रन्थकार इति निश्चीयते, प्रसिद्धं हि आश्रितविबुधैः स्वकृतप्रबन्धानां
राजार्पणम्, प्रतापरुद्रदेवश्च इतः प्राक् षष्ठस्य वर्षशतकस्यादिभागे
उषितवान् इति, लक्ष्मीधरस्यापि स एव काल इत्युन्नीयते इत्यलम् ॥
 
इति
पण्डितरत्नं कस्तूरिरङ्गाचार्यः
 
#de
 
CC-0. Jangamwadi Math Collection. Digitized by eGangotri