This page has not been fully proofread.

पञ्चसप्ततितमः श्लोकः
 
चित्रकिम्मीरकल्माषशबलैताश्च कर्बुरे ।
 
इत्यमरः । अधरकान्तिसंवलिता शुक्तिमुक्तामणिमालिकेव भातीति भावः ।
प्रतापव्यामिश्रां पुरदमयितुः त्रिपुरान्तकस्य, कीर्तिमिव ते तब । प्रतापस्तु
रक्तवर्णः कीर्तिस्तु श्वेतवर्णेति महाकविप्रसिद्धिः । अत एवास्य कवेः
गजकुम्भोद्भवाः मणयः पाटलवर्णाः न शबलवर्णाः, अन्तश्शबलितामित्युक्तिरपि
पाटलवर्णपरेत्यभिप्राय इत्यनुसन्धेयम् ॥
 
अत्रेत्थं पदयोजना – हे अम्ब ! ते कुचामोगः स्तम्बेरमदनुजकुम्भ-
प्रकृतिभिः मुक्तामणिभिः समारब्धों अमलां हारलतिकां बिम्बाधररुचिभिः
अन्तः शेबलितां प्रतापव्यामिश्रां पुरदमयितुः कीर्तिमिव वहति ॥
 
अत्रोत्प्रेक्षालङ्कारः, हारलतिकायाः प्रतापसंवलित कीर्तित्वेन संभावनात्
बिम्बाधररुचिभिरित्यत्र उत्प्रेक्षा, स्वभावतो रक्तवर्णेषु बिम्बाधररुचिभिः
संवलनादिवेति हेतोरुत्प्रेक्षणात् । उभयोरनुप्राण्यानुप्राणकभावेन संबन्धः,
अपृथकस्थित्या उपकारकत्वात् ॥ ७४ ॥
 
१६५
 
तब स्तन्यं मन्ये धरणिधरकन्ये हृदयतः
पयःपारावारः परिवहति सारस्वतमिव ।
दयावत्या दत्तं द्रविलशिशुरास्वाद्य तव यत्
 
कवीनां प्रौढानामजनि कमनीयः कवयिता ॥ ७५ ॥
 
तव स्तन्यं स्तनोद्भवं क्षीरं, मन्ये जानामि । 'धरणिधरकन्ये !
हृदयतः हृदयात् पयःपारावारः क्षीरसमुद्रः । सुधाधारासारः इति वा
पाठः । सुधायाः धाराणामासारः सुधाप्रवाहः परिवहति सारस्वतं सरस्वती-
'तुहिनगिरिकन्ये.
 
CC-0. Jangamwadi Math Collection. Digitized by eGangotri