This page has not been fully proofread.

१६४
 
सौन्दर्यलहरी सव्याख्या
 
सूक्तं निश्चयान्तस्सन्देह इति । 'कविकल्पितकोटिद्वयस्यावाच्यत्वं नास्ति'
 
इति
 
॥ ७३ ॥
 
वहत्यम्ब स्तम्बेरमदनुजकुम्भप्रकृतिभिः
 
समारब्धां मुक्तामणिभिरमलां हारलतिकाम् ।
कुचाभोगो बिम्बाधररुचिभिरन्तश्शबलित
 
प्रतापव्यामिश्रां पुरदमयितुः कीर्तिमिव ते ॥ ७४ ॥
 
वहति दधति । अम्ब ! मातः ! स्तम्बेरमदनुजकुम्भप्रकृतिभिः
स्तम्बेरमदनुजः गजासुरः तस्य कुम्भस्थलमेव प्रकृतिः जन्मभूमिः येषां
तैः गजकुम्भेषु मुक्तामर्णय उद्भवन्ति । यथोक्तं सर्वज्ञसोमेश्वरेण–
 
गजकुम्भेषु वंशेषु फणासु जलदेषु च ।.
शुक्तिकायामिक्षुदण्डे षोढा मौक्तिकसंभवः ॥
गजकुम्मे कर्बुराभाः वंशे रक्तसिताः स्मृताः ।
फणासु बासुकेरेव नीलवणी प्रकीर्तिताः ॥
ज्योतिर्वर्णास्तु जलदे शुक्तिकायां सिताः स्मृताः ।
इक्षुदण्डे पीतवर्णाः मणयो मौक्तिकाः स्मृताः ॥ इति ।
 
गजकुम्भप्रकृतयो मौक्तिकमणयः कर्बुरवर्णाः, गजासुरकुम्भप्रकृतयस्तु विशेषत
एवेति भावः । समारब्धां खचितां, मुक्तामणिभिः मौक्तिकैः, अमलां
त्रासादिदोषरहितां न तु श्वेतां, गजकुम्भोद्भवानां कर्बुरत्वात् । हारलतिकां
मुक्तावलिं, कुचाभोगः कुचमध्यप्रदेशः: बिम्बाधररुचिभिः बिम्बाकारोऽधरो
बिम्बाधरः । शाकपार्थिवादित्वात्साधुः । बिम्बाधरस्य अधरबिम्बस्येव रुचिमिः,
अन्तश्शबलितां सञ्जातचित्रवर्णाम्-
CC-0. Jangamwadi Math Collection. Digitized by eGangotri